वाचस्पत्यम्
भूषण || न० भूष्यतेऽनेन भूष—करणे ल्युट् । १ अलङ्कारे किरी- टादौ । भावे ल्युट् । २ भूषायाम् । अलङ्कारभेदाः तत्- साधनद्रव्याणि यथा “किरीदञ्च शिरोरत्नं कुण्डलञ्च ललाटिका । तालपत्रञ्च हारश्च ग्रैवेयकमथोर्मिका । प्रालम्विका रत्रसूत्रमुत्तङ्गो- ऽथर्क्षमालिका । पार्श्वद्योतो नखद्योतोह्यङ्गुलीच्छादक स्तवा । कटिलग्नं माणवको मूर्द्धतारा ललन्तिका । अङ्गदो बाहुवलयः शिस्याभूषणमिङ्गिका । प्रगण्डबन्धं तत्- पाशं नाभिपूरोऽथ मालिका । सप्तकी शृङ्खलञ्चैव दण्डपत्रञ्च वर्णकः । जरुसूत्रञ्च नीवी च मुष्टिवद्धं प्रकीर्णकम् । पादाङ्गदं हंसकञ्च मूधुरं क्षुद्रघण्टिका । सुखपट्टमिति प्रोक्ता अशङ्काराः सुशोभनाः । चत्वा- रिंशदमी प्रोक्ता लोके वेदे च सौख्यदाः । अमङ्काराः प्रदानेन चतुर्वर्गप्रदायकाः । एतेषां पूजनं कृत्वा प्र- दद्यादिष्टसिद्धये । तेषां दैवतमुच्चार्य्य पूजयेत्तु विच क्षणः । शिरोगतानि चादद्यात् सौवर्णानि तु सर्वदा । चूडारत्नादिकानीह भूषणानि तु भैरव! । ग्रैवेयका- दिहंसान्तं सौवर्णं राजतञ्च वा । निवेदयेत् तु देवेभ्यो नान्यतैजससम्भवम् । रीतिवङ्गादिसंजातं पात्रोपकार- णादिकम् । दद्यादायसवर्जन्तु भूषणं न कदाचन । घण्टाचामरकुम्भादिपात्रोपकरणादिकम् । तद्भूषणान्तरे दद्यात् यस्मात्तु तदुपभूषणम् । सर्वं ताम्रमयं दद्याद् यत् किञ्चिद्भूषणादिकम् । सर्वत्र स्वर्णवत्ताम्रमर्घ्यपात्रे ततोऽधिकम् । पूजार्घ्यपात्रं नैवेद्याधारपात्रञ्च पानकम् । औडुम्बरं सदा विष्णोः प्रीतिदं तोषदं तदा । ताम्रे देवाः प्रमोदन्ते ताम्रे देवाः सदा स्थिताः । सर्वप्रीतिकरं ताम्रं तस्मात्ताम्रं प्रयोजयेत् । स्मोपयोगे नरः कुर्य्या- द्देवानामपि पैरव! । ग्रीवोर्द्धदेशे रौप्यन्तु न कदाचिच्च भूषणम् । प्रावारः पानपात्रञ्च गेण्डुकं गृहमेव च । पर्य्यङ्कादि यदन्यच्च सर्वं तदुपभूषणम् । अयोमयमृते कांस्यमृते यद्भूषणं भवेत् । स्वर्णरौप्यस्य चाभावे त्वधः- काये नियोजयेत् । एतेषां भूषणादीनां यद्दातुं शक्यते नरैः । तत्तद्दद्यात् सम्भवे तु सर्वमेव प्रदापयेत् । चतुर्वर्गषदं नित्यं भूषणं सर्वसौख्यदम् । तुष्टिपुष्टि प्रीतिकरं यथाशक्तीष्टये सृजेत् । इदं ते भूषणं प्रोक्तं सर्वदेवस्य तुष्टिदम्” कालि० पु० ६८ अ० । तद्धारणदिनमुच्यते “रिवत्यश्विप्लनिष्ठासु हस्तादिष्वपि पञ्चसु । गुरुशुक्रबुधस्या- ह्नि वस्त्रालङ्कारधारणम् । अनिष्टेष्वपि निर्दिष्टं वस्त्रा- लङ्कारधारणम् । उद्वाहे राजसम्भाने ब्राह्मणानाञ्च सम्मते । शिरस्त्रं मुकुटं हारः कुण्डलञ्चाङ्गुदन्तथा । कङ्कणं वालकञ्चैव मेखलाष्टाविति क्रमात् । प्रधान- भूषणान्येषु यथोस्वं याति निश्चयः । पद्मरागश्च वज्रञ्च विजयो गोमेदस्तथा । मुक्तावैदूर्य्यनीलञ्च तथा मरकतं क्रमात् । आदित्यादिदशाजानां सर्वसम्पत्ति- दावकाः । शुभर्क्षेणापि घटना सर्वेषामुपयुज्यते । प्रधानभूषणेष्वेवमप्रधाने न निर्णयः । प्रधानभूषणं प्रायः शिरसो ह्यभिधीयते । तस्य प्रधानभूतत्वादित्याह भृगुनन्दनः । सुखदा मणयः शुद्धा दुःखदाः दोष- शालिनः ।” इति युक्तिकल्पतरुः ।
शब्दकल्पद्रुमः
भूषणं || क्ली (भूष्यते अनेनेति । भूष + करणे ल्युट् ।)
अलङ्कारः । इति हेमचन्द्रः । ३ । ३१३ ॥ (यथा, चाणक्यसंग्रहे । ८ । “नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पतिः ॥”)
देवदेयभूषणादि यथा, —
“भोग्यभूषोत्तमं नित्यं भूषणानि शृणुष्व मे । किरीटञ्च शिरोरत्नं कुण्डलञ्च ललाटिका ॥ तालपत्रञ्च हारश्च ग्रैवेयकमथोर्म्मिका । प्रालम्बिका रत्नसूत्रमुत्तुङ्गोऽथर्क्षमालिका ॥ पार्श्वद्योतो नखद्योतो ह्यङ्गुलीच्छादकस्तथा । कटिलग्नं माणवको मूर्द्धतारा ललन्तिका ॥ अङ्गदो बाहुबलयः शिखाभूषणमिङ्गिका । प्रागण्डबन्धं तद्भ्राशं नाभिपूरोऽथ मालिका ॥ सप्तकी शृङ्खलञ्चैव दन्तपत्रञ्च वर्णकः । ऊरुसूत्रञ्च नीवी च मुष्टिबद्धं प्रकीर्णकम् ॥ पादाङ्गदं हंसकञ्च नूपुरं क्षुद्रघण्टिका । सुखपट्टमिति प्रोक्ता अलङ्काराः सुशोभनाः ॥ चत्वारिंशदमी प्रोक्ता लोके वेदे च सौख्यदाः । अलङ्काराः प्रदानेन चतुर्व्वर्गप्रदायकाः ॥ एतेषां पूजनं कृत्वा प्रदद्यादिष्टसिद्धये । तेषां दैवतमुच्चार्य्य पूजयेत्तु विचक्षणः ॥ शिरोगतानि चादद्यात् सौवर्णानि तु सर्व्वदा । चूडारत्नादिकानीह भूषणानि तु भैरव ! ॥ ग्रैवेयकादि हंसान्तं सौवर्णं राजतञ्च वा । निवेदयेत्तु देवेभ्यो नान्यतैजससम्भवम् ॥ रीतिवङ्गादिसंजातं पात्रोपकरणादिकम् । दद्यादायसवर्जन्तु भूषणं न कदाचन ॥ घण्टाचामरकुम्भादि पात्रोपकरणादिकम् । तद्भूषणान्तरे दद्याद् यस्मात्तदुपभूषणम् ॥ सर्व्वं ताम्रमयं दद्याद्यत्किञ्चिद्भूषणादिकम् । सर्व्वत्र स्वर्णवत्ताम्रमर्ध्यपात्रे ततोऽधिकम् ॥ पूजार्घ्यपात्रं नैवेद्याधारपात्रञ्च पानकम् । औडुम्बरं सदा विष्णोः प्रीतिदं तोषदं तदा ॥ ताम्रे देवाः प्रमोदन्ते ताम्रे देवाः सदा स्थिताः । सर्व्वप्रीतिकरं ताम्रं तस्मात्ताम्रं प्रयोजयेत् ॥ स्वोपयोगे नरः कुर्य्याद्देवानामपि भैरव ! । ग्रीवोर्द्ध्वदेशे रौप्यन्तु न कदाचिच्च भूषणम् ॥ प्रावारः पानपात्रञ्च गेण्डुकं गृहमेव च । पर्य्यङ्कादि यदन्यच्च सर्व्वं तदुपभूषणम् ॥ अयोमयमृते कांस्यमृते यद्भूषणं भवेत् । स्वर्णरौप्यस्य चाभावे त्वधःकाये नियोजयेत् ॥ एतेषां भूषणादीनां यद्दातुं शक्यते नरैः । तत्तद्दद्यात् सम्भवे तु सर्व्वमेव प्रदापयेत् ॥ चतुर्व्वर्गप्रदं नित्यं भूषणं सर्व्वसौख्यदम् । तुष्टिपुष्टिप्रीतिकरं यथाशक्तीष्टये सृजेत् ॥ इदं ते भूषणं प्रोक्तं सर्व्वदेवस्य तुष्टिदम् ।” इति कालिकापुराणे ६८ अध्यायः ॥ अथालङ्कारयुक्तिः । तद्धारणदिनमुच्यते । “रेवत्यश्विधनिष्ठासु हस्तादिष्वपि पञ्चसु । गुरुशुक्रबुधस्याह्नि वस्त्रालङ्कारधारणम् ॥ अनिष्टेष्वपि निर्द्दिष्टं वस्त्रालङ्कारधारणम् । उद्वाहे राजसम्माने ब्राह्मणानाञ्च सम्मते ॥ शिरस्त्रं मुकुटं हारः कुण्डलञ्चाङ्गदन्तथा । कङ्कणं बालकञ्चैव मेखलाष्टाविति क्रमात् ॥ प्रधानभूषणान्येषु यथा स्वं याति निश्चयः । पद्मरागश्च वज्रञ्च विजयो गोविदस्तथा ॥ मुक्तावैदूर्य्यनीलञ्च यथा मरकतं क्रमात् । आदित्यादिदशाजानां सर्व्वसम्पत्तिदायकाः ॥ सुवणनापि घटना सर्व्वेषामुपयुज्यते । प्रधानभूषणेष्वेवमप्रधाने न निर्णयः ॥ प्रधानभूषणं प्रायः शिरसो ह्यभिधीयते । तस्य प्रधानभूततत्वादित्याह भृगुनन्दनः । सुखदा मणयः शुद्धा दुःखदा दोषशालिनः ॥” इति युक्तिकल्पतरुः ॥ तद्धारणफलम् यथा, —
“भूषणं भूषयेदङ्गं यथायोग्यविधानतः । शुचिसौभाग्यसन्तोषदायकं काञ्चनं स्मृतम् ॥ ग्रहदृष्टिहरं पुष्टिकरं दुःखप्रणाशनम् । पापदौर्भाग्यशमनं रत्नाभरणधारणम् ॥ माणिक्यं तरणेः सुजात्यममलं मुक्ताफलम् शीतगो- र्माहेयस्य च विद्रुमो निगदितः सौम्यस्य गारुत्मतम् । देवेज्यस्य च पुष्परागमसुराचार्य्यस्य वज्रं शने- र्नीलं निर्म्मलमन्ययोश्च गदिते गोमेदवैदूर्य्यके ॥ वासः स्रग्गन्धरत्नानां धारणं प्रीतिवर्द्धनम् । रक्षोघ्नमर्थ्यमोजस्यं सौभाग्यकरमुत्तमम् ॥” इति भावप्रकाशः ॥
शब्दकल्पद्रुमः
भूषणः || पुं, (भूयषति भक्तबृन्दमिति भूष्यतेऽनेनेति वा । भूष + ल्युः वा ल्युट् ।)
विष्णुः । यथा, —
“भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ।” इति तस्य सहस्रनामस्तोत्रम् ॥ (राजविशेषः । यथा, कथासरित्सागरे । ४७ । १३ । “वसुदत्तादयश्चैते राजानोऽर्थरथा इमे । अङ्कुरी सुविशालश्च दण्डिभूषणसोमिलाः ॥”)