वाचस्पत्यम्
भृ || धारणे पोषणे च जु० उभ० सक० अनिट् । बिभर्त्ति बिभृते अभार्षीत् अभृत । बिभरामास—बभार । द्वित् । अथु भरथुः । ड्वित् । क्त्रि—मप् च । भृत्त्रिमः ।
वाचस्पत्यम्
भृ || भरणे भ्वा० उभ० सक० अनिट् । भरति—ते अभार्षीत् बभार बभ्रे ।
शब्दकल्पद्रुमः
भृ || लि टु डु ञ भृतिपुष्ट्योः । इति कविकल्प- द्रुमः ॥ (भ्वा०-उभ०-सक०- अनिट् । लि-ह्वा०-उभ०-सक०-अनिट् ।)
भृति- र्भरणं पुष्टिः पोषणम् । लि ञ “बिभर्त्ति शशिनं शम्भुर्बिभृते जनकः सुतम् । टु भरथुः । ङु भृत्रिमम् । भ्वादिपक्षे भृतिः पूरणम् । ञ भरति कुम्भमद्भिर्जनः । भरते । इति दुर्गादासः ॥