वाचस्पत्यम्
भेद || पु० भिद—घञ् । १ पृथक्करणे २ अन्यतो विशेषे राज्ञामु- पायभेदे विपक्षशासनार्थं ३ तत्पक्षीयामात्यादिभेदने ४ न्यायमतोक्ते अन्योऽन्याभावे च यथा घटात् पटस्य भेदः (तादात्म्येनाभावः) उपायभेदभेदप्रकारो यथा “परस्परन्तु ये द्विष्टाः क्रुद्धभीतावमानिताः । तेषां भेदं प्रयुञ्जीत परमं दर्शयेत् भयम् । आत्मीयान् दर्शये- दाशां येन दोषेण विभ्यति । परास्तेनैव ते भेद्या रक्ष्यो वै ज्ञातिभेदकः । सामन्तकोपो बाह्यस्तु मन्त्र्य मात्यात्मजादिकः । अन्तःकोषञ्चोपशाम्यं कुर्वन् शत्रीश्च नं जयेत्” अग्निपु० २२५ अ० । ५ द्वैधे ६ विदारणे मेदि० । ७ विरेके वैद्यकम् ।
शब्दकल्पद्रुमः
भेदः || पुं, (भिद् + घञ् ।)
शत्रुवशीकरणोपाय- चतुष्टयान्तर्गततृतीयोपायः । तत्पर्य्यायः । उपजापः २ । इत्यमरः । २ । ८ । २१ ॥ परतो विश्लेष्य आत्मसात् करणंभेदः । इति भरतः ॥ तद्विशेषो यथा, — मत्स्य उवाच । “परस्परन्तु ये दुष्ठाः क्रुद्धा भीतावमानिताः । तेषां भेदं प्रयुञ्जीत भेदसाध्या हि ते मताः ॥ ये तु येनैव दोषेण परस्मान्नापि बिभ्यति । ते तु तद्दोषपातेन भेदनीया भृशं ततः ॥ आत्मीयां दर्शयेदाशां परस्माद्दर्शयेद्भयम् । एवं हि दर्शयेद्भिन्नान् यथावद्वशमानयेत् ॥ संहता हि विना भेदं शक्रेणापि सुदुःसहाः । भेदमेव प्रशंसन्ति तस्मान्नयविशारदाः ॥ स्वमुखेनाश्रयेद्भेदं भेदं परमुखेन च । परीक्ष्य साधु मन्येत भेदं परमुखाच्छ्रुतम् ॥ भेद्याः स्वकार्य्यमुद्दिश्य कुशलैर्ये हि भेदिताः । भेदितास्ते विनिर्द्दिष्टा नैव राजार्थवादिभिः ॥ अन्तःकोपो बहिःकोपो यत्र स्यातां मही- क्षिताम् । अन्तःकोपो महांस्तत्र नाशकः पृथिवीक्षिताम् ॥ सामन्तकोपो बाह्यस्तु कोपः प्रोक्तो मनीषिभिः । महिषीयुवराजाभ्यां तथा सेनापतेर्नृप ! ॥ अमात्यमन्त्रिणाञ्चैव राजपुत्त्रात्तथैव च । अन्तःकोपो विनिर्द्दिष्टो दारुणः पृथिवीक्षिताम् ॥ वाह्यकोपे समुत्पन्ने सुमहत्यपि पार्थिवः । शुद्धान्तस्तु महाभाग ! शीघ्रमेव जयी भबेत् ॥ अपि शक्रसमो राजा अन्तःकोपेन नश्यति । सोऽन्तःकोपःप्रयत्नेन तस्माद्रक्षेन्महीक्षिता ॥ परतः कोपमुत्पाद्य भेदेन विजिगीषुणा । ज्ञातीनां भेदनं कार्य्यं परेषां विजिगीषुणा ॥ रक्ष्यश्चैव प्रयत्नेन ज्ञातिभेदस्तथात्मनः । ज्ञातयः परितप्यन्ते सततं परितप्य यम् ॥ तथापि तेषां कर्त्तव्यं सुगम्भीरेण चेतसा । ग्रहणं दानमानाभ्यां भेदस्तेभ्यो भयङ्करः ॥ न ज्ञातिरनुगृह्णाति न ज्ञातिर्दग्धुमिच्छति । ज्ञातिभिर्भेदनीयास्तु रिपवस्तेन पार्थिवैः ॥ भिन्ना हि शक्या रिपवः प्रभूताः स्वल्पेन सैन्येन निहन्तुमाजौ । सुसंहतानां हि ततस्तु भेदः कार्य्यो रिपूणां नयशास्त्रविद्भिः ॥” इति मात्स्ये राजधर्म्मे २२२ अध्यायः ॥ * ॥
द्वैधः । विशेषः । विदारणम् । इति मेदिनी । ने, १२ ॥ (तथा च कामन्दकीये । १५ । १६ । “पुरश्च पश्चाच्च यदा समर्थ- स्तदाभियायान्महते फलाय । पुनः प्रसर्पन्नविशुद्धपृष्ठः प्राप्नोति तीव्रं खलु पार्ष्णिभेदम् ॥”)
विरेकः । यथा, हास्यार्णवनाटके । “काशे धूमस्तुषाणां बलवति मरुते स्वेदभेदोपवासा वह्नेर्म्मान्द्ये च पिष्टं सपिशितमनिशं वारिपानं कफर्त्तौ ॥”