वाचस्पत्यम्
भेदक || त्रि० भिद—ण्वुल् । १ रेचके २ विदारके ३ भेदकारके ४ विशेषणे च । “स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः प्रस्तुतं पदैः । गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः” अमरः
शब्दकल्पद्रुमः
भेदकः || त्रि (भिद् + ण्वुल् ।)
विदारकः । यथा, मनौ । ९ । २८५ ।)
(“संक्रमध्वजयष्टीनां प्रतिमानाञ्च भेदकः । प्रतिकुर्य्याच्च तत् सर्व्वं पञ्च दद्याच्छतानि च ॥” विरेचकौषधादिः । (विरेचकौधार्थे विषयो यथा, “नवज्वरे च ये योगा भेदकाः परिकीर्त्तिताः । ते तथैव प्रयोक्तव्या वीक्ष्य देहमलादिकम् ॥” इति वैद्यकरसेन्द्रसारसंग्रहे विरेकाधिकारे ॥)
पृथक्कारकः । यथा । “भेदयति अन्यपदार्थं पृथक् करोतीति भेदकं नाम्ना शिवः गोत्रेण गार्ग्यः ।” इति कारकटीकायां दुर्गादासः ॥ अपि च । “भेद्यभेदकयोः श्लिष्टं सम्बन्धोऽन्योन्यमिष्यते । द्बिष्ठो यद्यपि सम्बन्धः षष्ठ्यत्पत्तिस्तु भेदकात् ॥” इति कलापटीकाधृतभर्त्तृहरिकारिका ॥ (“सामान्यस्य भेदको विशेषः प्रकारः ।” इति च ५ । ३ । ६९ । इत्यस्य । काशिकावृत्तिः ॥)