संस्कृत-शब्दकोशः

भैरवी भैषज

भैरवीचक्र

वाचस्पत्यम्

भैरवीचक्र ||‍ न० भैरव्याः पूजनार्थं चक्रमू । देवीपूजार्थे कुलाचारवतां चक्राकारसमूहे तद्विधिर्यथा उत्पत्तितन्त्रे ||‍“नित्यं नैमित्तिकं काम्यं प्रकुर्य्याच्च दिने दिने । कुलवारे कुलर्क्षे च तिथौ चन्दनके तथा । भैरव्याः कल्पितं चक्रं संस्थाप्य पूर्ववत् प्रिये । सुराणां शोधनं कुर्य्याद् यथावत् परमेश्वरि! । प्रवृत्ते भैरवी- चक्रे सर्वे वर्णा द्विजोत्तमाः । निवृत्ते भैरवीचक्रे सर्वे वर्णाः पृथक् पृथक्” ।



Correction: