वाचस्पत्यम्
भौत || पु० भूतानि प्राणिनोऽधिकृत्य प्रवृत्तः तानि देवता वा अस्य अण् । १ देवले ब्रोह्मणे शब्दमा० । बलिकर्मरूपे गृहस्थ- कर्त्तव्ये पञ्चयज्ञान्तर्गते २ महायज्ञभेदे । “होमो दैवो वलिर्भौतो नृयज्ञोऽतिथिपूजनम्” मनुः । २ रात्रौ स्त्री ङीप् हेमच० । भूतप्रियत्वात्तस्यास्तथात्वम् ।
शब्दकल्पद्रुमः
भौतः || पुं, (भूतानि प्राणिनोऽधिकृत्य प्रवृत्तः । भूत + अण् ।)
भूतयज्ञः । बलिकर्म्म । यथा, —
“होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूज- नम् ॥” इत्याह्निकतत्त्वम् ॥ देबलः । इति शब्दमाला ॥ (भिक्षादिभ्योऽण् । भूतसङ्घः । तस्येदमित्यण् ।)
भूतसम्बन्धिनि, त्रि ॥