संस्कृत-शब्दकोशः

भ्रमत्कुटी भ्रमरक

भ्रमर

वाचस्पत्यम्

भ्रमर ||‍ पुंस्त्री० भ्रम—करन् । १ मधुकरे अमरः स्त्रियां जाति- त्वात् ङीष् । २ कामुके मेदि० । ३ भ्रमरच्छल्लीलताभेदे स्त्री राजनि० टाप् ।


शब्दकल्पद्रुमः

भ्रमरः || पुं, (भ्रमति प्रतिकुसुममिति ॥ अर्त्ति- कमीत्यादिना । “उणा० ३ । १३२ । इति अरः ।)
कीटविशेषः । (यथा, रघुवंशे । ८ । ३८ । “भ्रमरैः कुसुमानुसारिभिः ।”)
तत्पर्य्यायः । मधुव्रतः २ मधुकरः ३ मधुलिट् ४ मधुपः ५ अली ६ द्विरेफः ७ पुष्पलिट् ८ भृङ्गः ९ षट्पदः १० अलिः ११ । इत्यमरः । २ । ५ । २९ ॥ कलालापः १२ शिलीमुखः १३ पुष्पन्धयः १४ मधु- कृत् १५ द्विपः १६ भसरः १७ चञ्चरीकः १८ सुकाण्डी १९ मधुलोलुपः २० इन्दिन्दिरः २१ मधु- मारकः २२ । इति राजनिर्घण्टः ॥ मधुपरः २३ लम्बः २४ पुष्पकीटः २५ मधुसूदनः २६ भृङ्गराजः २७ मधुलेही २८ रेणुवासः २९ । इति शब्द- रत्नावली ॥ कामुकः । इति मेदिनी । रे, १९१ ॥



Correction: