वाचस्पत्यम्
मञ्जीर || न० मन्ज—ध्वनौ ईरन् । १ नुपूरे अमरः । “मञ्जु- मणिमञ्जीरे कलगम्भीरे” इति सा० १० प० । २ दधिमन्यन- दण्डबन्धस्तम्भे पु० हेमच
शब्दकल्पद्रुमः
मञ्जीरः || पुं, (मञ्ज + ईरन् ।)
मन्थानदण्डरज्जु बन्धनार्थस्तम्भः । तत्पर्य्यायः । विष्कम्भः २ कुटरः २ । इति हेमचन्द्रः ॥
शब्दकल्पद्रुमः
मञ्जीरः || पुं, क्ली, (मञ्जति मधुरं शब्दायते । इति मन्ज् ध्वनौ सौत्रधातुः + बाहुलकात् ईरन् ।)
नूपुरः । इत्यमरः । २ । १०९ ॥ मञ्जीरोऽस्त्री स नूपुरः । इति रभसः ॥ (यथा, गीतगोविन्दे । ५ । ११ । “मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिषु लोलम् ॥”)