संस्कृत-शब्दकोशः

मणड मणिक

मणि

वाचस्पत्यम्

मणि(णी) ||‍ पुंस्त्री० मण—इन् स्त्रीत्वपक्षे वा ङीप् । सु- क्तादौ रत्ने “मणिरत्नं सरं शीतं कषायं स्वादु लेखनम् । चक्षुष्यं धारणात्तच्च पापालक्ष्मीविनाशनम्” राजवल्लभः । “मणिहारावसिरामणीयकमिति” “नृपनीलमणी- गृहत्विषेति च” नैषधम् । २ मृण्मयपात्रभेदे अलिञ्जरे (जाला) ३ लिङ्गाग्रे ४ नागभेदे जटा० ५ मणिवन्धे हेमच० स्वार्थे संज्ञायां कन् वा । मणिक व्यलिष्मरे न० प्रमरः । अजागलस्तने मेदि० योन्यग्रे शब्दरत्ना०


शब्दकल्पद्रुमः

मणिः || पुं, स्त्री, (मण + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इतीन् ।)
अश्मजातिः । (यथा, रघौ । १ । ४ । “मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ।”)
मुक्तादिकम् । तत्पर्य्यायः । रत्नम् २ मणी ३ । इत्यमरः । २ । ९ । ९३ । (तथाचास्य पर्य्यायः । “रत्नं क्लीवे मणिः पुंसि स्त्रियामपि निगद्यते । तत्तु पाषाणभेदोऽस्ति मुक्तादि च तदुच्यते ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।)
अस्य गुणाः । “मणिरत्नं परं शीतं कषायं स्वादु लेखनम् । चक्षुष्यं धारणात्तच्च पापालक्ष्मीविनाशनम् ॥” इति राजबल्लभः ॥ (तथाचास्य गुणाः । “मुक्ताविद्रुमवज्रेन्द्रवैदूर्य्यस्फटिकादयः । चक्षुष्या मणयः शीता लेखना विषसूदनाः । पवित्रा धारणायाश्च पाप्मालक्ष्मीमलापहाः ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्याये ।)
अजायाः कण्ठस्थितस्तनः । लिङ्गाग्रम् । अलि- ञ्जरः । इति मेदिनी । २४ ॥ योन्यग्रभागः । इति शब्दरत्नावली ॥ नागविशेषः । इति जटाधरः ॥ मणिबन्धः । इति हेमचन्द्रः ॥ (मुनिभेदः । यथा, महाभारते । २ । ११ । २२ । “असितो देवलश्चैव जैगिषव्यश्च तत्त्ववित् । ऋषभो जितशत्रुश्च महावीर्य्यस्तथा मणिः ॥”)



Correction: