संस्कृत-शब्दकोशः

मण्डरी मण्डलक

मण्डल

वाचस्पत्यम्

मण्डल ||‍ न० मडि—कलच् । १ चक्राकारेण वेष्टने अमरः यथा सूर्य्यमण्डलं भूमण्डलम् । उभयतोविंशतियोजनमिते २ देशभेदे ३ सूर्य्यचन्द्रयोः परिवेषे ४ द्वादशनृपचक्रे ५ कोठरोगे च मेदि० । ६ गाले अनेकतीर्थको० । ७ समूहे हेम० “अर्थमण्डपमण्डलम्” इति वोपदेवः । ८ चक्रे त्रिका० । “मण्डलाकारपादाख्यं मण्डलं स्थानमीरितम्” इत्युक्ते ९ धन्विनां स्थानभेदे शब्दर० । “मण्डलं सर्वतो वृत्तिः” इत्युक्ते १० सैन्यव्यूहभेदे कामन्द० । कृत्रिमरेखासन्नि- वेशेन रचिते ११ पदार्थे च यथा ग्रहमण्डलं सर्वतो- भद्रमण्डलमित्यादि । १२ विम्बे त्रि० अमरः स्त्रियां गौरा० ङीष् । सा च १३ दूर्वायाम् हारा० १४ कुक्कुरे पु० मेदि० १५ सर्पभेदे पु० विश्वः १६ व्याघ्रनखाख्यगन्धद्रव्ये शब्दच० । ततः स्वार्थे क । विम्बे कुष्ठभेदे आदर्शे च । कृत्रिममण्डलविधानमुक्तं देवोपु० यथा “चतुर्हस्तं समारभ्य यावद्धस्तशतं भवेत् । मण्डलं तत्र कर्त्तव्यमत ऊर्ध्वं न कारयेत् । विमलं १ विजयं २ भद्रं ३ विमानं ४ शुभदं ५ शिवम् ६ । वर्द्धमानञ्च ७ दैवञ्च ९ लताक्षं १० कामदायकम् । रुचकं ११ स्वस्तिकाख्यञ्च १२ द्वि- दशमिति मण्डलम् । सितादिहरितान्ताश्च रागाः कार्य्याः सुशोभनाः । शालिषष्टिककौसुम्भरजनीहरिपत्रजाः । मणिविद्रुमरागाश्च भस्मना अभिमन्त्रिताः । सितसर्षप धूपाढ्यं रजः कृत्वा तु पातयेत् । अस्त्रवीजं न्यसेन्मन्त्री सम्भवति पदं च वा । समोत्यानं शुभं कृत्वागोमये नोपलेपितम् । चन्दनागुरुकर्पूरक्षोदधूपाधि- वासितम् । भूभागं सुमितं सिद्धं पूर्वपश्चिमकोत्तरम् । याम्यं स्वस्तिकमत्स्याद्यैः सूत्रैर्वोर्णाण्डपत्रजैः । पद्म- पत्राष्टकं मध्ये द्विगुणं त्रिगुणञ्च वा । द्वाराणि समसू- त्राणि कर्णिकाकेसरोज्ज्वलम् । पद्मं तथावशेषानि स्वस्ति- कान्युत्पलानि च । सव्यावलम्बहस्तस्तु रजःपातं समाचरेत् । मध्यमानामिकाङ्गुष्ठैरुपरिष्टाद् यथेप्सया । अधोमुखाङ्गुलिं कृत्वा पातयेत्तु विचक्षणः । समा रेखा तु कर्त्तव्याऽविच्छिन्ना पुष्टिवर्जिता । अङ्गुष्ठपर्व- वैपुल्या समा कार्य्या विजानता । संसक्तं विषमं स्थूलं विच्छिन्नं कृषरावृतम् । पर्य्यन्तमर्पितं ह्रस्वमालिखेन्न कदादन । संसक्ते कलहं विद्याद्वज्ररेखे तु विग्रहम् । अतिस्थाने भवेद्व्याधिर्नित्यं पीडा विमिश्रिते । दुन्दुभे- र्भयमाप्नोति शत्रूपक्षान्न संशयः । कृशायाञ्चार्थहानिः स्यात् विच्छिन्ने मरणं ध्रुवम् । वियोगात्तु भवेत्तस्य इष्टद्रव्यसुतस्य वा । अविदित्वा लिखेद्यस्तु मण्डलन्तु यथेप्सया । सर्वदोषानवाप्नोति ये दोषाः पूर्वभा- षितः” । भोजनमण्डलं यथा “यातुधानाः पिशा- चाश्च असुरा राक्षसास्तथा । घ्नन्ति केवलमन्नस्य मण्डलस्य विवर्जनात् । आदित्यावसवो रुद्रा ब्रह्मा चैव पितामहः । मण्डलान्युपजीवन्ति तस्मात् कुर्वन्ति मण्डलम् । चतुःकोणं द्विजाग्र्यस्य त्रिकोणं क्षत्रियस्य तु । द्विकोणाकृति वैश्यस्य शूद्रस्य वर्त्तुलं सदा” वह्नि पु० । भोजनशब्दे आह्निकत० वाक्यं दृश्यम् । व्यूहभेदलक्षणं कामन्दकीये उक्तं यथा “मण्डलो- ऽसंहतो भोगो दण्डश्चेति मनीषिभिः । कथिताः प्रकृतिव्यूहा भेदास्तेषां प्रकीर्त्तिताः । सन्ततं व्यूह्य मतिमान् काले स्थाने प्रकल्पयेत् । तिर्य्यग्वृत्तिश्च दण्डः स्याङ्गोगः स्याद् वृत्तिरेव च । प्रदरो दृढकोऽसह्यश्चापो वै तद्विपर्य्ययः । प्रतिष्ठः सुप्रतिष्ठश्च श्येनौ विजब० सञ्जयौ । विशालविजयः सूची स्थूणाकर्णञ्च भूमुखः । सुखाख्यो बलयश्चैव दण्डभेदाः सुदुर्जयाः । अतिक्रान्तः प्रतिक्रान्तः कक्षाभ्याञ्चैकपक्षतः । अति- क्रान्तश्च पक्ष भ्यां ततोऽन्यस्तु विपर्य्ययः । स्थूणापक्षो धनुःपक्षो द्विस्थूणो दण्ड ऊर्ध्वगः । द्विगुणान्तस्त्वति- क्रान्तपक्षोऽन्योऽस्य विपर्य्ययः । द्विचतुर्दण्ड इत्येवं ज्ञेयो लक्षणतः क्रमात् । गोमूत्रिकाऽहिसञ्चारी शकटो मकरस्तथा । भोगभेदाः समाख्यातास्तथा परि- पतन्तकः । दण्डपक्षो युगोरस्यः शकटस्तद्विपर्य्ययः । मकरो व्यवकीर्णश्च शेषः कुञ्जरराजिभिः । मण्डल- व्यूहभेदौ च सर्वतो भद्रदुर्जयौ । गजानीको द्वितीयस्तु प्रथमः सर्वतोमुखः । अर्द्धचन्द्रक उद्धारो वज्रभेदा- स्त्वसंहताः । तथा कुक्कुटशृङ्गी च काकपादी च गोधिका । त्रिचतुःपञ्चसैन्यानां ज्ञेया आकारभेदतः । इति व्यूहाः समाख्याता व्यूहभेदप्रयोक्तृभिः । एते सप्तदश प्रोक्ता दण्डव्यूहाश्च पञ्चधा । तथा व्यूहद्वयञ्चैव मण्डलस्य प्रयोक्तृभिः । असंहतास्तु षड्व्यूहा भोग- व्यूहाश्च पञ्चधा । व्यूहा एते प्रयोज्याः स्युर्युद्धकाल उपस्थिते ।”


शब्दकल्पद्रुमः

मण्डलं || क्ली (मण्डयति भूषयतीति । मडि + “कलस्तृपश्च ।” उणा० । १ । १०६ । इति कलः ।)
चन्द्रसूर्य्ययोर्बहिर्व्वेष्टनम् । चन्द्रसूर्य्ययोरुत्पातज- रश्मिमण्डलम् । यथा, —
“वातेन मण्डलीभूताः सूर्य्याचन्द्रमसोः कराः । मालाभा व्योम्नि तन्वन्ते परिवेशः प्रकीर्त्तितः ॥” इति साहसाङ्कः ॥ तत्पर्य्यायः । परिवेशः २ परिधिः ३ उप- सूर्य्यकम् ४ । इत्यमरः । १ । ३ । ३२ ॥ परिवेषः मूर्द्वन्यान्तोऽपि । यथा, —
“पुंलिङ्गः परिवेषः स्यात् परिधौ परिवेषणे ।” इति मूर्द्धन्यान्ते रुद्रः ॥ सूर्य्यमुपगतं उपसूर्य्यं स्वार्थे कः उपसूर्य्यकम् । चन्द्रपक्षे उपसूर्य्यमिव उपसूर्य्यकं इवार्थे कः । इति भरतः ॥ * ॥
चक्रबालम् । इत्यमरः । १ । ३ । ६ ॥ तत्तु मण्डलाकारेण परिणतं समूहमात्रम् । मण्डलाकारदिक्समूहः । इति माधवी ॥ चक्रस्येव वालो वलनमस्य चक्र- बालं वलेर्घञि वालः मनीषादित्वात् लस्य डत्वे चक्रवाडञ्च । किंवा चक्रेण चक्रा- कारेण वाडते चक्रवाडं वाडृङ आप्लावे अल् । इति भरतः ॥ * ॥
कोठरोगः । द्बादश- राजकम् । इति मेदिनी । १ ले, २१ ॥ (उक्तञ्च तद्विवरणं कामन्दकीये नीतिसारे । ८ । १ — २२ । “उपेतः कोषदण्डाभ्यां सामात्यः सह मन्त्रिभिः । दुर्गस्थश्चिन्तयेत्साधु मण्डलं मण्डलाधिपः । रथी विराजते राजा विशुद्धे मण्डले चरन् । अशुद्धे मण्डले सर्पन् शीर्य्यते रथचक्रवत् ॥ रोचते सर्व्वभूतेभ्यः शशीवाखण्डमण्डलः । सम्पूर्णमण्डलस्तस्माद्बिजिगीषुः सदा भवेत् ॥ अमात्यराष्ट्रदुर्गाणि कोषो दण्डश्च पञ्चमः । एताः प्रकृतयस्तज्ज्ञैर्विजिगीषोरुदाहृताः ॥ एताः पञ्च तथा मित्रं सप्तमः पृथिवीपतिः । सप्तप्रकृतिकं राज्यमित्युवाच बृहस्पतिः ॥ सम्पन्नस्तु प्रकृतिभिर्महोत्साहः कृतश्रमः । जेतुमेषणशीलश्च विजिगीषुरिति स्मृतः ॥ कौलीनं वृद्धसेवित्वसुत्साहः स्थूललक्षिता । चित्रज्ञता बुद्धिमत्त्वं प्रागल्भ्यं सत्यवादिता ॥ अदीर्घसूत्रताऽक्षौद्रं प्रश्रयः स्वप्रधानता । देशकालज्ञता दार्ढ्यं सर्व्वक्लेशसहिष्णुता ॥ सर्व्वविज्ञानिता दाक्ष्यं सदा संवृतमन्त्रता । अविसंवादिता शौर्य्यं भक्तिज्ञत्वं कृतज्ञता ॥ शरणागतवात्सल्यममर्षित्वमचापलम् । स्वकर्म्मदृष्टशास्त्रत्वं कृतित्वं दीर्घदर्शिता ॥ जितश्रमित्वं धर्म्मित्वमक्रूरपरिवारता । प्रकृतिस्फीतता चेति विजिगीषुगुणाः स्मृताः ॥ सर्व्वैर्गुणैर्विहीनोऽपि स राजा यः प्रतापवान् । प्रतापयुक्ता ह्यस्यन्ति परान् सिंहा मृगानिव ॥ एतापसिद्धौ नृपतिः प्राप्नोति महतीं श्रियम् । तस्मादुत्थानयोगेन प्रतापं जनयेत्परम् ॥ एकार्थाभिनिवेशित्वमविलक्षणमुच्यते । दारूणस्तु स्मृतः शत्रुर्विजिगीषुगुणान्वितः ॥ लुब्धः क्रूरोऽलसोऽसत्यः प्रमादी भीरूरस्थिरः । मूढो योधावमन्ता च सुखच्छेद्यो रिपुः स्मृतः ॥ अरिर्मित्रमरेर्मित्रं मित्रमित्रमतःपरम् । तथारिमित्रमित्त्रञ्च विजिगीषोः पुरः स्थिताः ॥ पार्ष्णिग्राहः स्मृतः पश्चादाक्रन्दस्तदनन्तरम् । आसारावनयोश्चव विजिगीषोस्तु मण्डलम् ॥ अरेस्तु विजिगीषोस्तु मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोः समर्थो व्यस्तयोर्वधे ॥ मण्डलत्वे हि चैतेषामुदासीनो बलाधिकः । अनुग्रहे संहतानां व्यस्तानाञ्च वधे प्रभुः ॥ मूलप्रकृतयस्त्वेताश्चतस्रः परिकीर्त्तिताः । आहैव मन्त्रकुशलश्चतुष्कं मण्डलं मयः ॥ विजिगीषुररिर्मित्रं पार्ष्णिग्राहोऽथ मध्यमः । उदासीनः पुलोमेन्द्रौ षट्कं मण्डलमूचतुः ॥ उदासीनो मध्यमश्च विजिगीषोस्तु मण्डलम् । उशना मण्डलमिदं प्राह द्वादशराजकम् ॥”)
देशः । स च देशः समन्ताद्विंशतियोजनं चत्वा- रिंशद्योजनं वा । इति केचित् ॥ गोलम् । इत्य- नेकार्थकोषः ॥ चक्रम् । इति त्रिकाण्डशेषः ॥ संधातः । इति हेमचन्द्रः ॥ नखाघातः । इति शब्दमाला ॥ धन्विनां स्थानपञ्चकान्तर्गत- स्थितिविशेषः । यथा, —
“मण्डलाकारपादाभ्यां मण्डलं स्थानमीरितम् ।” इति शब्दरत्नावली ॥ व्याघ्रनखाख्यगन्धद्रव्यम् । इति शब्दचन्द्रिका ॥ व्यूहविशेषः । यथा, —
“तिर्य्यग्वृत्तिश्च दण्डः स्याद्भोगोऽन्वावृत्तिरेव च । मण्डलं सर्व्वतोवृत्तिः पृथग्वृत्तिरसंहतः ॥” इति भरतधृतकामन्दकिः ॥ (अस्य पुंस्त्वमपि । यथा, महाभारते । ६ । ७८ । २० । “भीष्मेण धार्त्तराष्ट्राणां व्यूढः प्रत्यङ्मुखो ययौ । मण्डलः सुमहाव्यूहो दूर्भेद्योऽमित्रघातिनाम् ॥” यथा च, कामन्दकीये । १९ । ४१ । “मण्डलोऽसंहतो भोगो दण्डश्चेति मणीषिभिः ॥”)
ग्रहादीनां मण्डलसंस्थानं तत्परिमाणञ्च यथा, “सर्व्वेषान्तु ग्रहाणां वै अधस्ताच्चरते रविः । रवेरूर्द्ध्वं स्थितः सोमः सोमान्नक्षत्रमण्डलम् ॥ नक्षत्रेभ्यो बुधस्तूर्द्ध्वं बुधादूर्द्ध्वन्तु भार्गवः । तस्मादङ्गारकश्चोर्द्ध्वं तस्य चोर्द्धं बृहस्पतिः ॥ तस्मात् शनैश्चरश्चोर्द्ध्वं तस्योर्द्ध्वमृषिमण्डलम् । ऋषिभ्यश्च ध्रुवश्चोर्द्ध्वमायान्तं त्रिदिवं ध्रुवे । आदित्यनिलयो राहुः कदाचित् सोममार्गतः ॥ सूर्य्यमण्डलसंस्थस्तु नित्यं केतुः प्रसर्पति । नवयोजनसहस्राणि विस्तारो भास्करस्य तु ॥ विस्तारात्त्रिगुणञ्चास्य परिणाहे तु मण्डलम् । द्विगुणः सूर्य्यविस्ताराद्विस्तारः शशिनः स्मृतः ॥ द्विगुणं मण्डलञ्चास्य यथैव सवितुस्तथा । चन्द्रतः षोडशो भागो भार्गवस्य विधीयते ॥ भार्गवात् पादहीनस्तु विज्ञेयो वै बृहस्पतिः । बृहस्पतेः पादहीनौ वक्रसौरावुदाहृतौ ॥ विस्तारमण्डलाभ्यान्तु पादहीनस्तयोर्ब्बुधः । बुधतुल्यानि ऋक्षाणि सर्व्वे ह्रस्वानि यानि तु ॥ योजनार्द्धप्रमाणानि तेभ्यो ह्रस्वं न विद्यते । राहुः सूर्य्यप्रमाणस्तु कदाचित् सोमसम्मितः । तस्मात् ग्रहप्रमाणस्तु केतुस्त्वनियतः स्मृतः ॥” इति देवीपुराणे ग्रहगतिर्नामाध्यायः ॥ कृत्रिममण्डलविधिर्यथा, —
“चतुहंस्तं समारभ्य यावद्धस्तशतं भवेत् । मण्डलं तत्र कर्त्तव्यमत ऊर्द्ध्वं न कारयेत् ॥ विमलं विजयं भद्रं विमानं शुभदं शिवम् । वर्द्धमानञ्च दैवञ्च लताक्षं कामदायकम् । रुचकं स्वस्तिकाख्यञ्च द्विदशं इति मण्डलाः ॥ सितादिहरितान्ताश्च रजाः कार्य्याः सुशोभनाः । शालिषष्टिककौसुम्भरजनीहरिपत्रजाः ॥ मणिविद्रुमरागाश्च भस्मना अभिमन्त्रिताः । सितसर्षपधूपाढ्या रजाः कृत्वा तु पातयेत् ॥ अस्त्रराजं न्यसेन्मन्त्री सम्भवेति पदं पि वा । समोत्थानं शुभं कृत्वा गोमयेनोपलेपितम् ॥ चन्दनागुरुकर्पूरक्षोदधूपाधिवासितम् । भूभागं सुमितं सिद्धं पूर्ब्बपश्चिमकोत्तरम् ॥ याम्यं स्वस्तिकमस्त्याङ्गैः सूत्रैर्वोर्णाण्डपत्रजैः । पद्मपत्राष्टकं मन्ये द्विगुणं त्रिगुणं पि वा ॥ द्वाराणि समसूत्राणि कर्णिकाकेशरोज्ज्वलम् । पद्मं तथावशेषाणि स्वस्तिकान्युत्पलानि च ॥ सव्याबलम्बहस्तस्तु रजःपातं समाचरेत् । मध्यमानामिकाङ्गुष्ठैरुपरिष्टाद्यथेप्सया ॥ अधोमुखाङ्गुलिं कृत्वा पातयेत्तु विचक्षणः । समा रेखा तु कर्त्तव्याविच्छिन्ना पुष्टिवर्ज्जिता ॥ अङ्गुष्ठपर्व्वनैपुण्या समा कार्य्या विजानता । संसक्तं विषमं स्थूलं विच्छिन्नं कृषरावृतम् ॥ पर्य्यन्तसर्पितं ह्नस्वमालिखेन्न कदाचन । संसक्ते कलहं विद्याद्वज्ररेखे तु विग्रहम् ॥ अतिस्थाने भवेद्व्याधिर्नित्यं पीडा विमिश्रिते । बिन्दुभिर्भयमाप्नोति शत्रुपक्षान्न संशयः ॥ कृषायाञ्चार्थहानिः स्यात् विच्छिन्ने मरणं ध्रुवम् । वियोगात्तु भवेत्तस्य इष्टद्रव्यसुतस्य वा ॥ अविदित्वा लिखेद्यस्तु मण्डलन्तु यथेप्सया । सर्व्वदोषानवाप्नोति ये दोषाः पूर्ब्बभाषिताः ॥” इति देवीपुराणे पुष्पाभिषेकचिन्तानामाध्यायः ॥ सूर्य्यमण्डले देवानां स्थितिर्यथा, —
“अर्च्चयन् पूजयन् देवं जपेच्च रविमण्डले । आदित्यमण्डले देवं ध्यात्वा विष्णुमुपैति तम् ॥” भोजनमण्डलं यथा, —
“यातुधानाः पिशाचाश्च असुरा राक्षसास्तथा । घ्नन्ति केवलमन्नस्य मण्डलस्य विवर्ज्जनात् ॥ आदित्या वसवो रुद्रा ब्रह्मा चैव पितामहः । मण्डलान्युपजीवन्ति तस्मात् कुर्व्वन्ति मण्डलम् ॥ चतुःकोणं द्विजाग्रस्य त्रिकोणं क्षत्त्रियस्य तु । द्विकोणाकृति वैश्यस्य शूद्रस्य वर्त्तुलं सदा ॥” इत्याद्ये वह्निपुराणे आह्निकतपोनामाध्यायः ॥


शब्दकल्पद्रुमः

मण्डलं || त्रि विम्बम् । इत्यमरः । १ । ३ । १५ ॥ द्वे चन्द्रस्य शरीरे उपचारादादित्यस्य च । वेति शोभते विम्बः वीलकान्तिगत्यादौ नाम्नीति विम्बः । विम्बति भाति विम्बः । सौत्रोऽयमिति स्वामी । मण्डयति मण्डलं नाम्नीति अलः स्त्रियां नदा- दित्वात् मण्डली च । इति भरतः ॥


शब्दकल्पद्रुमः

मण्डलः || पुं, (मण्डं लाति गृह्णातीति । ला + कः ।)
कुक्कुरः । इति मेदिनी । ले, १२१ ॥ सर्पविशेषः । इति विश्वः ॥ (देहस्याष्टप्रकारसन्ध्यन्त- र्गतसन्धिविशेषः । “त एते सन्धयोऽष्टविधाः । कोरोदूखल-सामुद्ग-प्रतर-तुन्नसेवनीवायसतुण्ड- मण्डल-शङ्खावर्त्ताः ।” ‘कण्ठहृदयनेत्रक्लोम- नाडीषु मण्डलाः ।’ इति सुश्रुते शारीरस्थाने पञ्चमेऽध्याये ॥)



Correction: