वाचस्पत्यम्
मत्त || पु० मद—क्त । १ दुर्मदे गजे अमरः । २ क्षीवे ३ मदयुक्ते ४ हृष्टे च त्रि० । ५ धुस्तूरे ६ कोकिले ७ महिषे पु० राजनि० मत्तं मदोऽस्त्यस्याम् अच् । ८ मदिरायां स्त्री राजनि० । “ज्ञेया मत्ता मभनगयुता” वृ० र० उक्ते ९ दशाक्षरपादके छन्दोभेदे स्त्री ।
शब्दकल्पद्रुमः
मत्तः || त्रि मत्तताविशिष्टः । सुरापाने विक- लान्तःकरणः । तत्पर्य्यायः । शौण्डः २ उत्- कटः ३ क्षीवः ४ । इत्यमरः । ३ । १ । २३ ॥ मदोद्धतः ५ । इति जटाधरः ॥ (यथा, देवी- भागवते । २ । ८ । ४ । “ते पीत्वा मदिरां मत्ताः कृत्वा युद्धं पर- स्परम् ।” यथाच माधवकृतरुग्विनिश्चये मदात्ययाद्यधिकारे । “मध्येन मत्तः पुरुषो मदेन ।”)
हृष्टः । मदीभिर्य्यञि हर्षे क्तः । इत्यमर- भरतौ ॥ अविवेकी । (यथा रामायणे । १ । ४४ । १० । “बलान्मत्तो महाबलः ।” “मत्तोऽविवेकी ।” इति तट्टीकाकृद्रामानुजः ॥)
शब्दकल्पद्रुमः
मत्तः || पुं, (माद्यतीति । मद् + कर्त्तरि क्तः ।)
क्षरन्मदहस्ती । मातओयाला हाती इति भाषा ॥ तत्पर्य्यायः । प्रभिन्नः २ गर्ज्जितः ३ । इत्यमरः । २ । ८ । ३६ ॥ मतङ्गः ४ क्षरन्मदः ५ । इति शब्दरत्नावली ॥ धुस्तूरः । कोकिलः । महिषः । इति राजनिर्घण्टः ॥