वाचस्पत्यम्
मन्द्र || पु० मदि—रक् । १ वाद्यभेदे शब्दर० । २ गम्भीरध्वनौ च । अर्श आद्यच् ३ तद्वति त्रि० अमरः ।
शब्दकल्पद्रुमः
मन्द्रः || पुं, (मन्द्यते बुध्यते अनेन । मदि + “स्फायि- तञ्चीति ।” उणा० २ । १३ । इति रक् ।)
गम्भीरध्वनिः । इत्यमरः । १ । ७ । २ ॥ (यथा, मेघदूते । १०० । “मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्- सुकानि ॥”)
वाद्यविशेषः । तत्पर्य्यायः । मड्डः २ मृदङ्गकः ३ । इति शब्दरत्नावली ॥ (त्रि, हृष्टः । यथा, ऋग्वेदे । १ । ५ । ७ । “होता मन्द्रो वरेण्यः ॥” “मन्द्रो हृष्टः ।” इति तद्भाष्ये सायनः ॥ मादनशीलः । यथा, ऋग्वेदे । १ । १४४ । ७ । “अग्ने ! जुवस्व प्रतिहर्य्यतद्वचो मन्द्र स्वधावऋतजात सुक्रतो ॥” “मन्द्र ! मादनशील ! ।” इति तद्भाष्ये सायनः ॥)