वाचस्पत्यम्
मयूख || पु० माङ्—ऊख मयादेशः । १ त्विषि २ किरणे ३ गि- खायाम् अमरः ४ शोभायां मेदि० ५ कीले अजय० ।
शब्दकल्पद्रुमः
मयूखः || पुं, (मापयन् गगनं प्रमाणयन् ओखति गच्छतीति । पृषोदरादिः । इत्यमरटीकायां रधुनाथः । यद्वा, माति परिमातीव । मा + “माङ ऊखो मय च ।” उणा० ५ । २५ । इति ऊखः । मयादेशश्च ।)
किरणः । (यथा, महाभारते । ३ । ३९ । ४३ । “व्यसृजच्छतधा राजन् ! मयूखानिव भास्करः ॥”)
दीप्तिः । ज्वाला । इत्यमरः । १ । ४ । ३३ ॥ (यथा, रघौ । २ । ४६ । “अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्व्वन् । भूयः स भूतेश्वरपार्श्ववर्त्ती किञ्चिद्विहस्यार्थपतिं बभाषे ॥”)
शोभा । इति मेदिनी । खे, ११ ॥ कीलः । इत्यजयः ॥ (पर्व्वतः । यथा, ऋग्वेदे । ७ । ९९ । ३ । “दाधर्थ पृथिवीमभितो मयूखैः ॥” “मयूखैः पर्व्वतैः ।” इति तद्भाष्ये सायनः ॥”)