वाचस्पत्यम्
मरुत्त || पु० चन्द्रवंश्ये १ नृपभेदे ।
शब्दकल्पद्रुमः
मरुत्तः || पुं, (मरुदस्त्यस्येति । मरुत् + “तप् पर्व्वमरुद्भ्याम् ।” ५ । २ । १२२ । इत्यत्र काशि- कोक्त्या तप् ।)
चन्द्रवंशीयराजविशेषः । स च अवीक्षिद्राजपुत्त्रः । यथा — क्रोष्टुकिरुवाच । “अवीक्षितस्य नृपतेर्मरुत्तस्य महात्मनः । श्रोतुमिच्छामि चरितं श्रूयते सोऽतिचेष्टितः ॥ चक्रवर्त्ती महाभागः शूरः क्षान्तो महामतिः । धर्म्मविद्धर्म्मकृच्चैव सम्यक् पालयिता भुवः ॥ मार्कण्डेय उवाच । स पित्रा समनुज्ञातो राज्यं प्राप्य पितामहात् । धर्म्मतः पालयामास प्रजाः पुत्त्रानिवौरसान् ॥ इयाज सुमहायज्ञान् यथावत् प्राज्यदक्षिणान् । ऋत्विक्पुरोहितादेशादनिर्विण्णो महीपतिः ॥ तस्याप्रतिहतं चक्रमासीद्द्वीपेषु सप्तसु । गतयश्चाप्यविच्छिन्नाः स्वःपातालजलादिषु ॥” इति मार्कण्डेयपुराणे १०३ अध्यायः ॥ (यदुवंशीयः करन्धमपुत्त्रः । यथा, श्रीमद्भाग- वते । ९ । २३ । १७ । “त्रिभानुस्तत्सुतोऽस्यापि करन्धम उदारधीः । मरु त्तस्तत्सुतोऽपुत्त्रः पुत्त्रं पौरवमन्वभूत् ॥” शिलेयुराजपुत्त्रः । यथा, महाभारते । हरि- वंशपर्व्वणि । ३६ । ७ । “शिलेयुरभवत् पुत्त्र उशतः शत्रुतापनः । मरुत्तस्तस्य तनयो राजर्षिरभवन्नृप ! ॥”)