संस्कृत-शब्दकोशः

मर्या मर्यादागिरि

मर्यादा

वाचस्पत्यम्

मर्य्यादा ||‍ स्त्री मर्य्यायां सीमायां दीयते दा—घञर्थे क पर्य्यादीयते वा परि + आ—दा—अङ् पृषो० पस्य मः । १ न्याय्यपथस्थितौ अमरः । २ सीमायाम् जटा० ३ कूले च हेमच० ।


शब्दकल्पद्रुमः

मर्य्यादा || स्त्री (मर्य्या + दा + अङ् । न्याय्यपथ- स्थितिः । (यथा, महाभारते । १५ । २२ । २५ । “मर्य्यादायां स्थितो धर्म्मः शमश्चैवास्य लक्ष- णम् ॥”)
तत्पर्य्यायः । संस्था २ धारणा ३ स्थितिः ४ । इत्यमरः । २ । ८ । २६ ॥ “पर्य्यादीयते मर्य्यादा पर्य्याङ्पूर्ब्बात् दाञो ङः निपातनात् पस्य मः ।” इति तट्टीकायां भरतः ॥ “मर्य्येति सीमार्थे अव्ययं तत्र दीयते मर्य्यादेति स्वामी ।” इति रायमुकुटः ॥ “म्रियन्तेऽत्रेति मर्य्या तां ददा- तीति मर्य्यादा ।” इति सारसुन्दरी ॥ सीमा । इति जटाधरः ॥ कूलम् । इति हेमचन्द्रः । ४ । १४३ ॥ (यथा, प्रबोधचन्द्रोदये । १ । ६ । “कल्पान्तवातसंक्षोभलङ्घिताशेषभूभृतः । स्थैर्य्यप्रसादमर्य्यादास्ता एव हि महोदधेः ॥” देवातिथेः पत्नी । यथा, महाभारते । १ । ९५ । २३ । “देवातिथिः खलु वैदेहीमुपयेमे मर्य्यादां नाम ॥”)



Correction: