संस्कृत-शब्दकोशः

मर्षितवान् मलघ्न

मल

वाचस्पत्यम्

मल ||‍ धृतौ भ्वा० आ० अक० सेट् । मलते अमलिष्ट ।


वाचस्पत्यम्

मल ||‍ पु० मृज्यते शोध्यते मृज—कल—टिलोपः । १ पापे २ पुरीषे लौहादीनां ३ किट्टे अमरः । किट्टं कलङ्को मण्डूरा- दिर्देहजातस्वेदश्लेष्मादिश्च । “वसा शुक्र समृङ्मज्जा- मूत्रं विट्कर्णविड्नखाः । श्लेष्माश्रु दूषिका स्वेदो द्वादशैते नृणां मनाः” स्मृतिः । ४ कर्पूरे शब्दच० ५ वातपित्तकफेषु च माधवः । ५ दुष्टे ६ सम्बन्धे च ।


शब्दकल्पद्रुमः

मल || ङ धृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०- सक०-सेट् ।)
ङ मलते । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

मलः || पुं, क्ली, (मृज्यते शोध्यते इति । मृज् + “मृजेष्टिलोपश्च ।” उणा ० १ । १०९ । इति अलच् टिलोपश्च । यद्बा, मलते धारयति व्याध्यादिदौर्गन्धमिति । मल् + अच् ।)
पापम् । (यथा, मनुः । २ । १०२ । “पश्चिमान्तु समासीनो मलं हन्ति दिवाकृतम् ॥” “दिवार्ज्जितं पापं निहन्ति ।” इति तट्टीकायां कुल्लूकभट्टः ॥ * ॥
)
विट् । (यथा, मनुः । ४ । २२० । “पूयं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम् । विष्ठा वार्द्धुषिकस्यान्नं शास्त्रविक्रयिणो मलम् ॥” “विष्ठा मलमेकमेव च ।” इति तद्भाष्ये मेधा- तिथिः ॥)
किट्टम् । इत्यमरः । २ । ६ । ६५ ॥ (यथा, अभिज्ञानशकुन्तले । ६ । “छाया न मूर्च्छति मलोहतप्रासादे शुद्धे तु दर्पणतले सुलभावकाशा ॥”)
“पापं किल्विषम् । विट् । विष्ठा । किट्टं कलङ्को मण्डूरादि स्वेदादि च एषु मलः । ‘वसा शुक्रमसृङ्मज्जा मूत्रं विट्कर्णविण्णखाः । श्लेष्माश्रुदूषिका स्वेदो द्वादशैते नृणां मलाः ॥’ इति स्मृतिः ।” इति तट्टीकायां भरतः ॥ कर्पू- रम् । इति शब्दचन्द्रिका ॥ वातपित्तकफाः । यथा, —
“सर्व्वेषामेव रोगाणां निदानं कुपिता मलाः । तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम् ॥” इति माधवकरः ॥ (पारिभाषिकमलं यथा, महाभारते । ८ । ४५ । २३ । “क्षत्त्रियस्य मलं भैक्ष्यं ब्राह्मणस्याव्रतं मलम् । मलं पृथिव्या वाहीकाः स्त्रीणां मदश्रियो मलम् ॥”)



Correction: