संस्कृत-शब्दकोशः

मल्ला मल्लारी

मल्लार

वाचस्पत्यम्

मल्लार ||‍ पु० मल्ल इव ऋच्छति ऋ—अच् । १ रागभेदे २ वसन्त- रागस्य रागिणीभेदे स्त्री ङीप् सङ्गीतदामो० ।


शब्दकल्पद्रुमः

मल्लारः || पुं, (मल्लं ऋच्छति प्राप्नोतीति । ऋ + अण् ।)
रागविशेषः । स तु षण्णां रागाणां मध्ये द्वितीयः । यथा, —
“आदौ मालवरागेन्द्रस्ततो मल्लारसंज्ञितः । श्रीरागस्तस्य पश्चाद्वै वसन्तस्तदनन्तरम् ॥ हिल्लोलश्चाथ कर्णाट एते रागाः प्रकी- र्त्तिताः ॥” अस्य षट्रागिण्यो यथा, —
“वेलावली पूरवी च कानडा माधवी तथा । कोडा केदारिका चैव मल्लारस्य प्रिया इमाः ॥” अस्य गानसमयः । “मेघमल्लाररागस्य गानं वर्षासु सर्व्वदा ॥” अस्य स्वरूपं यथा, —
“शङ्खावदातं पलितं दधानः प्रलम्बकर्णः कुमुदेन्दुवर्णः । कौपीनवासाः सविहारचारी मल्लाररागः शुचिशान्तमूर्त्तिः ॥” इति सङ्गीतदामोदरः ॥ (तथा च सङ्गीतदर्पणे रागाध्याये । “भैरवः पञ्चमो नाटो मल्लारो गौडमालवः । देशाख्यश्चेति षड्रागाः प्रोच्यते लोकविश्रुताः ॥” “मेघमल्लारिका मालकौशिकः पटमञ्जरी । आशावरीति विज्ञेया रागा मल्लारसंश्रयाः ॥” इति रागार्णवमतम् ॥)



Correction: