वाचस्पत्यम्
महत् || त्रि० मह—अति । १ विपुले २ वृद्धे च स्त्रियां ङीप् महती ३ राज्ये न० मेदि० । ४ साङ्ख्योक्ते महत्तत्त्वे पु० “प्रकृतेर्महानिति” श्रुतिः । “मनो महान् मतिर्ब्रह्मा” इत्युक्ते ५ हिरण्यगर्भलिङ्गदेहे शा० भा० सर्वनामस्थाने नुम्दीर्थौ महान् महान्तौ एकार्थशब्दे परे समासे तस्थाने आ । महाधनम्
शब्दकल्पद्रुमः
महत् || क्ली (मह् + अति । निपातितश्च ।)
राज्यम् । इति मेदिनी । वे, १४० ॥ (यथा, छान्दोग्योपनिषदि । ५ । २ । ४ । “अथ यदि महज्जिगमिषेदमावास्यायां दीक्षिता पौर्णमास्या रात्रौ इत्यादि ॥” ब्रह्म । यथा, महाभारते । ३ । ३१२ । ४४ । “श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् ॥” उदकम् । इति निघण्टुः । १ । १२ ॥)
शब्दकल्पद्रुमः
महत् || त्रि (मह्यते पूज्यतेऽसौ इति । मह् + “वर्त्तमाने पृषद्बृहन्महज्जगच्छतृवच्च ।” उणा० २ । ८४ । इति अतिः निपात्यते ।)
महान् । महती । वड्रः । इति मेदिनी । ते, १४० ॥ तत्पर्य्यायः । विशङ्कटम् २ पृथु ३ बृहत् ४ विशालम् ५ पृथुलम् ६ वड्रम् ७ उरु ८ । विपुलम् ९ । इत्यमरः । २ । १ । ६० ॥ पुलम् १० विस्तीर्णम् ११ । इति शब्दरत्नावली ॥ (यथा, रघौ । १२ । ४० । “तस्मिन् रामशरोत्कृत्ते बले महति रक्षसाम् ॥”)
तद्वैदिकपर्य्यायः । ब्रध्नः २ ऋष्वः ३ बृहत् ४ उक्षितः ५ तवसः ६ तविषः ७ महिषः ८ अभ्वः ९ ऋभुक्षाः १० उक्षा ११ विहायाः १२ यह्वः १३ ववक्षिथ १४ विवक्षसे १५ अम्भृणः १६ माहिनः १७ गभीरः १८ ककुहः १९ रभसः २० ब्राधन् २१ विरप्शी २२ अद्भुतम् २३ वंहिष्ठः २४ बर्हिषत् २५ । इति पञ्चविंशतिर्म्महन्नामानि । इति वेदनिघण्टौ ३ अध्यायः ॥ * ॥
(प्रकृते- राद्योविकारः । यथा, सांख्यसूत्रम् । १ । ६१ । “सत्त्वरजस्तभसां सामावस्था प्रकृतिः प्रकृते- र्महान् महतोऽहङ्कारः ॥” इति ॥)
मह- च्छब्दस्य शङ्खादिशब्दविशेषाणां पूर्ब्बं प्रयोग- निषेधो यथा, —
“शङ्खे तैले तथा मांसे वैद्ये ज्योतिषिके द्विजे । यात्रायां पथि निद्रायां महच्छब्दो न दीयते ॥” इति भट्टिप्रथमस्वर्गीयचतुर्थश्लोकटीकायां भरतः ॥
शब्दकल्पद्रुमः
महान् || [त्] त्रि, (मह्यते पूज्यते वेति । मह + “वर्त्तमाने पृषद्बृहन्महज्जगच्छतृवच्च ।” उणा० २ । ८४ । इति अतिः । निपात्यते ।)
बृहन् । इत्यमरः । ३ । १ । ६० ॥ (यथा, मनौ । ८ । २९६ । “प्राणभृत्सु महत्स्वर्द्धं गोगजोष्ट्रहयादिषु ॥”)
अस्य पर्य्यायः महच्छब्दे द्रष्टव्यः ॥