संस्कृत-शब्दकोशः

महत् महत्तर

महत्तत्त्व

वाचस्पत्यम्

महत्तत्त्व ||‍ न० कर्म० । सांख्योक्तप्रकृत्यादिचतुर्विंशतितत्त्वमध्ये प्रकृतिकार्य्ये अहङ्कारादिकारणे निश्चयात्मकवृत्तिविशिष्टे तत्त्वभेदे ।


शब्दकल्पद्रुमः

महत्तत्त्वं || क्ली (महच्च तत् तत्त्वञ्चेति ।)
चतु- र्विंशतितत्त्वान्तर्गतद्वितीयतत्त्वम् । तत्तु प्रकृते- रुत्पन्नम् । समष्टिबुद्धिस्वरूपम् । तत्पर्य्यायः । यथा, —
“महानात्मा मतिर्व्विष्णुर्ज्जिष्णुः शम्भुश्च वीर्य्य- वान् । बुद्धिः प्रज्ञोपलब्धिश्च तथा ख्यातिर्धृतिः स्मृतिः । पर्य्यायवाचकैः शब्दैर्म्महानात्मा विभाव्यते । तं जानन् ब्राह्मणो विद्वान् प्रमोहं नाधि- गच्छति ॥” इति महाभारते आश्वमेधिकपर्व्व ॥ अपि च । “एका मूर्त्तिस्तयो भागा ब्रह्मविष्णुमहेश्वराः । सविकारात् प्रधानात्तु महत्तत्त्वं प्रजायते ॥ महानिति यतः ख्यातिर्लोकानां जायते सदा । अहङ्कारश्च महतो जायते मानवर्द्धनः ॥” इति मात्स्ये २ अध्यायः ॥



Correction: