संस्कृत-शब्दकोशः

महानट महानन्द

महानदी

वाचस्पत्यम्

महानदी ||‍ स्त्री । १ ओड्रदेशस्थे नदीभेदे २ समुद्रगामिन्यां नद्याञ्च ।


शब्दकल्पद्रुमः

महानदी || स्त्री (महती चासौ नदी चेति ।)
पुरुषोत्तमक्षेत्रान्तर्गतकटकस्योत्तरदेशस्थनदी- विशेषः । तस्या नामान्तरं चित्रोत्पला । यथा, “नदी तत्र महापुण्या बिन्ध्यपादविनिर्गता । चित्रोत्पलेति विख्याता सर्व्वपापहरा शुभा ॥ चित्रोत्पला महानदी ।” इति पुरुषोत्तम- तत्त्वम् ॥ गङ्गा । यथा, —
“अम्बुजमम्बुनि जातं जातु न जायते अम्बुजादम्बु । मुरहर ! तव विपरीतं पादाम्बजान्महानदी जाता ॥” इत्युद्भटः ॥



Correction: