संस्कृत-शब्दकोशः

महानदी महानन्दा

महानन्द

वाचस्पत्यम्

महानन्द ||‍ पु० महान् अतिवृहत् १ आनन्दो यत्र १ मोक्षे हला० कर्म० । २ अतिशयानन्दे पु० “माघमासस्य या शुक्ला नवमी लोकपूजिता । महानन्देति सा प्रोक्तेत्युक्तायां ३ माघशुक्लनवम्यां ४ सुरायां राजनि० ५ नदीभेदे च स्त्री ।


शब्दकल्पद्रुमः

महानन्दः || पुं, (महानानन्दोऽत्र ।)
मुक्तिः । इति हलायुधः ॥ (महान् आनन्दः ।)
अति- शयाह्लादश्च ॥ (नृपतिविशेषः । यथा, मार्क- ण्डेये । १३४ । ४० । “इत्युक्त्वा तान् महीपालान् महानन्दमुखान् बली । अथाब्रवीत्तदा सर्व्वान् महारिदमनो दमः ॥” वेणुविशेषः । यथा, सङ्गीतदामोदरे । “महानन्दस्तथा नन्दो विजयोऽथ जयस्तथा । चत्वार उत्तरवंशा मातङ्गमुनिसम्मताः ॥”)



Correction: