वाचस्पत्यम्
महापातक || न० “ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुस्तत्संसर्गश्च पञ्चमः” इत्युक्तेषु पञ्चसु पातकेषु महापापमप्यत्र ।
शब्दकल्पद्रुमः
महापातकं || क्ली (महदतिशयितं पातकम् ।)
पापविशेषः । तत्तु पञ्चविधम् । यथा, —
“ब्रह्महत्या सुरापानं स्तेयं गुर्व्वङ्गनागमः । महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥” इति मानवे ११ अध्यायः ॥ “महापातकजं चिह्नं सप्तजन्मसु जायते । वाधते व्याधिरूपेण तस्य कृच्छ्रादिभिः समः ॥” इति शातातपीयकर्म्मविपाकः ॥ “तुलामकरमेषेषु प्रातःस्नानं विधीयते । हविष्यं ब्रह्मचर्य्यञ्च महापातकनाशनम् ॥” इति मलमासतत्त्वम् ॥ “कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्त्तते । भस्मीभवन्ति राजेन्द्र ! महापातककोटयः ॥” इति पुराणम् ॥