वाचस्पत्यम्
महाप्राण || पुंस्त्री० महान् बहुकालस्थायित्वात् श्रेष्ठः प्राणो यस्यं । १ द्रोणकाके राजान० स्त्रियां ङीष् कर्म० । २ व- र्णोच्चारणस्य वाह्यप्रयत्रभेदे स च वर्ग्यद्वितीयचतुर्थवर्णानां शषसहानामुच्चारणप्रयत्नः तेषामुच्चारणे हि प्राणवायो र्भूयान् प्रयास इति तेषामपि महाप्राणत्वगुपचारात् ।
शब्दकल्पद्रुमः
महाप्राणः || पुं, (महान्तो दीर्घकालस्थायिनः प्राणा यस्य सः ।)
द्रोणकाकः । इति राज- निर्घण्टः ॥ वर्णविशेषः । स च । ख घ छ झ ठ ढ थ ध फ भ श ष स ह रूपः । यथा, —
“वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमौ य र ल वाश्चाल्पप्राणाः । अन्ये महाप्राणा इत्यर्थः ।” इति सिद्धान्तकौमुदी ॥ (महावले, त्रि । यथा, श्रीमद्भागवते । ६ । ११ । ६ । “एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून् । व्यनदत् सुमहाप्राणो येन लोका विचेतसः ॥”)