संस्कृत-शब्दकोशः

महाफेणा महाबला

महाबल

वाचस्पत्यम्

महाबल ||‍ पु० महत् बलं यस्य । १ वायौ २ दशबले बुद्धे च त्रिका० ३ महाबलयुते त्रि० । महत् बलं यस्मात् ५ ब० । ४ सीसके न० हेमच० । ५ पीतवाट्यालके स्त्री रत्नमा० ।


शब्दकल्पद्रुमः

महाबलं || क्ली (महदतिशयितं बलं सामर्थ्यमस्मात् । महत् बलमस्येति वा ।)
सीसकम् । इति हेमचन्द्रः ॥ (तथास्य पर्य्यायः । “नागं महाबलं चीनं पिष्टं योगेष्टसीसकम् ॥” इति वैद्यकरत्नमालायाम् ॥)


शब्दकल्पद्रुमः

महाबलः || पुं, (महदुत्कृष्टं बलं ऐश्वर्य्यं यस्य ।)
बुद्धः । इति त्रिकाण्डशेषः ॥ (पितृगणविशेषः । यथा, मार्कण्डेये । ९६ । ४६ । “महान् महात्मा महितो महिमावान् महा- बलः । गणाः पञ्च तथैवैते पितॄणां पापनाशनाः ॥”)
वायुः । बलीयसि, त्रि । इति हेमचन्द्रः । ४ । १७३ ॥ (यथा, रामायणे । १ । १ । ३४ । “नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः । स जगाम वनं वीरो रामपादप्रसादकः ॥”)



Correction: