वाचस्पत्यम्
महालक्ष्मी || स्त्री कर्म० । चण्ड्याद्वितीयचरितदेवतारूपे “सेषे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम्” इत्युक्त- लक्षणे अष्टादशभुजान्विते १ दुर्गाशक्तिभेदे तन्त्रोक्ते २ लक्ष्मीभेदे च ।
शब्दकल्पद्रुमः
महालक्ष्मीः || स्त्री (महती लक्ष्मोः ।)
राधा । नारायणशक्तिः । यथा, —
“यन्मायया मोहिताश्च ब्रह्मविष्णुशिवादयः । वैष्णवास्तां महालक्ष्मीं परां राधां वदन्ति ते ॥ यदर्द्धाङ्गा महालक्ष्मीः प्रिया नारायणस्य च ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५१ अध्यायः ॥ अथ महालक्ष्मीमन्त्रः । “तारो वाग्भवं माया रमाकामः हसौ- र्ज्जगत्प्रसूत्यै नमः ॥” तथा च । “वाग्भवं शम्भुवनिता रमा मकरकेतनः । तार्त्तीयञ्च जगत्पार्श्वो वह्निबीजसमुज्ज्वलः ॥ अर्घीशाढ्यो भृगुस्त्यैहृम्मन्त्रोऽयं द्वादशाक्षरः । महालक्ष्म्याः समुद्दिष्टस्ताराद्यः सर्व्वसिद्धिदः ॥” तस्या ध्यानं यथा, तन्त्रसारे । “बालार्कद्युतिमिन्दुखण्डविलसत्कोटीरहारो- ज्ज्वलां रत्नाकल्पविभूषितां कुचनतां शालेः करैर्म्मञ्ज- रीम् । पद्मौ कौस्तुभरत्नमप्यविरतं संबिभ्रतीं सस्मितां फुल्लाम्भोजविलोचनत्रययुतां ध्यायेत् परा- मम्बिकाम् ॥” (अस्या बीजम् । ॐ ऐँ ह्नीँ श्रीँ क्लीँ ह्सौँ जगत्प्रसूत्यै नमः ।)