संस्कृत-शब्दकोशः

महालक्ष्मी महालिकटभी

महालय

वाचस्पत्यम्

महालय ||‍ पु० महान् आत्यन्तिको लयो यत्र । १ पुरमात्मनि २ तीर्थस्थाने ३ विहारे ४ कन्यास्थरविकमासकृष्णपक्षे न० । “तस्यां दद्यात् न चेद्दत्तं पितॄणां वै महालये” इति भविष्यपु० । कर्म० । ५ वृहदालये ।


शब्दकल्पद्रुमः

महालयः || पुं, (महतां जैनानामालयः । महान् आलय इति वा ।)
विहारः । (महतां योगि- प्रभृतीनामालयः ।)
तीर्थः । (महदादीनां लयो यस्मिन् ।)
परमात्मा । इति मेदिनी । ये, १२५ ॥ सौराश्विनीयकृष्णपक्षः । यथा, भविष्ये । “येयं दीपान्विता राजन् ! ख्याता पञ्चदशी भुवि । तस्यां दद्यान्न चेद्दत्तं पितॄणां वै महालये ॥” महालये कन्यागतापरपक्षे । इति तिथ्यादि- तत्त्वम् ॥



Correction: