वाचस्पत्यम्
महिमन् || पु० महतो भावः इमनिच् डित्त्वेन टिलोपः । १ महत्त्वे २ ईश्वरैश्वर्य्यभेदे हेमच० ।
शब्दकल्पद्रुमः
महिमा || [न्] पुं, (महतो भावः । महत् + “पृथ्वा- दिभ्य इमनिज् वा ।” ५ । १ । १२२ । इति इमनिच् । ततः “टेः ।” ६ । ४ । १५५ । इति टिलोपः ।)
शिवस्याष्टैश्वर्य्यान्तर्गतैश्वर्य्यविशेषः । इति हेम- चन्द्रः । २ । ११६ ॥ स च महत्त्वं येन चतुर्द्दश भुवनान्यस्योदरे वर्त्तन्ते । इत्यमरटीकायां भरतः ॥ (तदुक्तं यथा, —
“अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशित्वञ्च वशित्वञ्च तथा कामावसायिता ॥” माहात्म्यम् । यथा, भागवते । ८ । ५ । १३ । “त्वया संकथ्यमानेन महिम्ना सात्वतां पतेः । नाति तृप्यति मे चित्तं सुचिरं तापतापितम् ।”)
उत्कर्षः । यथा, पुराणम् । “अधोऽधः पश्यतः कस्य महिमा नोपजायते । उपर्य्युपरि पश्यन्तः सर्व्व एव दरिद्रति ॥” (मन्त्रिविशेषस्य सुतः । यथा, राजतरङ्गि- ण्याम् । ६ । २२० । “सम्भूय चक्रुर्द्वैराज्यं महिम्नः पक्षमाश्रितः ॥”)