वाचस्पत्यम्
मादक || त्रि० मदयति मद—णिच्—ण्वुल् । १ मत्तताकारके द्रव्ये । माद्यति कर्त्तरि ण्वुल् । २ दात्यूहे पुंस्त्री० शब्दमा० स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
मादकः || पुं, (माद्यति वर्षागमे हृष्यतीति । मद + ण्वुल् ।)
दात्यूहपक्षी । इति शब्दमाला ॥ (मादयति स्वगुणेन भूतानीति । मद + णिच् ण्वुल् ।)
मदकारकद्रव्ये, त्रि ॥ (यथा, देवी- भागवते । १ । १४ । ६४ । “इन्द्रियाणि महाभाग ! मादकानि सुनि- श्चितम् । अदारस्य दुरन्तानि पञ्चैव मनसा सह ॥”)