संस्कृत-शब्दकोशः

माध्वीमधुरा मानक

मान

वाचस्पत्यम्

मान ||‍ अर्च्चे वा चु० उ० पक्षे भ्वा० पर० सक० सेट् । मानयति ते मानति अमीमनत्—त अमानीत् ।


वाचस्पत्यम्

मान ||‍ न० मा—ल्युट् । १ परिमाणे हस्ततुलाप्रख्याद्यैर्द्रव्यपरि- च्छेदे भावप्र० मानपरिभाषा कर्षशब्दे दृश्या । २ प्रमाणे “मानाधीनामेयसिद्धिः” भीमांसकाः । गानाङ्गे काल- क्रियायां तालविरामोपलक्षिते ३ कालव्यापारे च मेदि० । मन—घञ् । आत्मनि उत्कर्षाभिमानात्मि- कायां ४ चित्तसमुन्नतौ पु० अमरः । “स्वाभीष्टाश्लेषवी- क्षादिविरोधी मान उच्यते” इत्युक्ते ५ अनुरक्त- दम्पत्योः ६ अवस्थाभेदे पु० । “मुञ्च मयि मानमनिदानम् जयदेवः । ७ सम्माने च ।


वाचस्पत्यम्

मान ||‍ विचारे भ्वा० सक० सेट स्वार्थे सन् नेट् । मीमांसते अमीमांसिष्ट अर्चायां च तत्र न स्वार्थे सन् ।


शब्दकल्पद्रुमः

मान || कि अर्च्चे । इति कविकल्पद्रुमः ॥ (चु०- पक्षे भ्वा०-पर०-सक०-सेट् ।)
कि मानयति मानति । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

मानं || क्ली (मीयतेऽनेनेति । मा + करणे ल्युट् ।)
परिमाणम् । तत्पर्य्यायः । यौतवम् २ द्रुव- यम् ३ पाय्यम् ४ पौतवम् ५ । तत्तु तुलाङ्गुलि- प्रस्थैस्त्रिविधं भवति । तत्र तुलाग्रहणेनोन्मा- नाद्युपलक्ष्यते । अङ्गुल्या हस्तादि । प्रस्थेन द्रोणादि । इत्यमरभरतौ । २ । ९ । ८५ ॥ प्रमाणम् । इति मेदिनी । ने, १५ ॥ यत्र तालो विरमति तत् । तदेव गृहसुच्यते । तच्चतुर्विधम् । समं विषमं अतीतं अनागतञ्च । इति सङ्गीत- शास्त्रम् ॥ * ॥
अथ मानपरिभाषा । “न मानेन विना युक्तिर्द्रव्याणां जायते क्वचित् । अतः प्रयोगकार्य्यार्थं मानमत्रोच्यते मया ॥ चरकस्य मतं वैद्यैराद्यैर्यस्मान्मतं ततः । विहाय सर्व्वमानानि मागधं मानमुच्यते ॥ त्रसरेणुर्व्वुधैः प्रोक्तस्त्रिंशता परमाणुभिः । त्रसरेणुस्तु पर्य्यायनाम्ना ध्वंसीति गद्यते ॥ जालान्तरगतैः सूर्य्यकरैर्ध्वंसी विलोक्यते । षड्ध्वंसीभिर्म्मरीचिः स्यात्ताभिः षड्भिश्च राजिका । तिसृभी राजिकाभिश्च सर्षपः प्रोच्यते बुधैः । यवोऽष्टसर्षपैः प्रोक्तो गुञ्जा स्यात्तच्चतुष्टयम् ॥ षड्भिस्तु रत्तिकाभिः स्यान्माषको हेम- धानकौ । माषैश्चतुर्भिः शाणः स्याद्धरणः स निगद्यते ॥ टङ्कः स एव कथितस्तद्द्वयं कोलमुच्यते । क्षुद्रमो वटकश्चैव द्रङ्क्षणः स निगद्यते ॥ कोलद्बयस्तु कर्षः स्यात् स प्रोक्तः पाणि- मानिकः । अक्षः पिचुः पाणितलं किञ्चित् पाणिश्च तिन्दु- कम् ॥ विडालपदकञ्चैव तथा षोडशिका मताः । करमध्यो हंसपदं सुवर्णं कवलग्नहम् ॥ उडुम्बरञ्च पर्य्यायैः कर्ष एब निगद्यते । स्यात् कर्षाभ्यामर्द्धपलं शुक्तिरष्टमिका तथा । शुक्तिभ्याञ्च पलं ज्ञेयं मुष्टिराम्रं चतुर्थिका । प्रकुञ्चः षोडशी विल्वं पलमेमात्र कीर्त्त्यते ॥ पलाभ्यां प्रसृतिर्ज्ञेया प्रसृतञ्च निगद्यते । प्रसृतिभ्यामञ्जलिः स्यात् कुडवोऽर्द्धसरावकः ॥ अष्टमानञ्च स ज्ञेयः कुडवाभ्याञ्च मानिका । सरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः ॥ शरावाभ्यां भवेत् प्रस्थश्चतुःप्रस्थैस्तथाढकः । भाजनं कांस्यपात्रञ्च चतुःषष्टिपलश्च सः ॥ चतुर्भिराढकैर्द्रोणः कलशो नल्वणोर्मणः । उन्मानश्च घटो राशिर्द्रोणपर्य्यायसंज्ञितः ॥ द्रोणाभ्यां सूर्पकुम्भौ च चतुःषष्टिशरावकः । सूर्पाभ्याञ्च भवेद्द्रोणी वाहो गोणी च सा स्मृता ॥ द्रोणीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः । चतुःसहस्रपलिका षण्णवत्यधिका च सा ॥ पलानां द्विसहस्रञ्च भार एकः प्रकीर्त्तितः । तुलापलशतं ज्ञेया सर्व्वत्रैवैष निश्चयः ॥ माषटङ्काक्षविल्वानि कुडवः प्रस्थमाढकम् । राशिर्गोणी खारिकेति यथोत्तरचतुर्गुणाः ॥” * ॥
मागधपरिभाषायां षड्रत्तिको माषश्चतुर्व्विंशति- रत्तिकष्टङ्कः षण्णवतिरत्तिकः कर्षः । अयं चरक- सम्मतः ॥ सुश्रुतमते । पञ्चरत्तिको माषो विंशतिरत्तिकष्टङ्कोऽशीतिरत्तिकः कर्षः । अय- मेव कलिङ्गपरिभाषायामपि । यतस्तत्राष्ट- रत्तिको माषो द्बात्रिंशद्रत्तिकष्टङ्कः । सार्द्ध- टङ्कद्वयमितः कर्षः । “गुञ्जादिमानमारभ्य यावत् स्यात् कुडवस्थितिः । द्रवार्द्रशुष्कद्रव्याणां तावन्मानं समं मतम् ॥ प्रस्थादिमानमारभ्य द्बिगुणन्तु द्रवार्द्रयोः । मानं तथा तुलायास्तु द्विगुणं न क्वचित् स्मृतम् ॥ मृद्वृक्षवेणुलोहादेर्भाण्डं यच्चतुरङ्गुलम् । विस्तीर्णञ्च तथोच्चञ्च तन्मानं कुडवं वदेत् ॥” इति मागधमानम् ॥ * ॥
अथ कालिङ्गमानम् । “यतो मन्दाग्नयो ह्रस्वा हीनसत्त्वा नराः कलौ । अतस्तु मात्रा तद्योग्या प्रोच्यते सुज्ञसम्मता ॥ यवो द्वादशभिर्गौरैः सर्षपैः प्रोच्यते बुधैः । यवद्वयेन गुञ्जा स्यात्त्रिगुञ्जो वल्ल उच्यते । माषो गुञ्जाभिरष्टाभिः सप्तभिर्वा भवेत् क्वचित् ॥ चतुर्भिर्माषकैः शाणः स निष्कष्टङ्क एव च । गद्यानो माषकैः षडभिः कर्षः स्याद्दशमा- षिकः ॥ चतुःकर्षैः पलं प्रोक्तं दशशाणमितं बुधैः । चतुःपलैश्च कुडवः प्रस्थाद्याः पूर्ब्बवन्मताः ॥ स्थितिर्नास्त्येव मात्रायाः कालमग्निं वयो बलम् । प्रकृतिं दोषदेशौ च दृष्ट्वा मात्रां प्रकल्पयेत् ॥ नाल्पं हन्त्यौषधं व्याधिं यथाम्भोऽल्पं महा- नलम् । अतिमात्रञ्च दोषाय यथा शस्ये बहूदकम् ॥” इति मानपरिभाषा । इति भावप्रकाशः ॥


शब्दकल्पद्रुमः

मान || ङ विचारे । अर्च्चे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।)
ङ मीमांसते शास्त्रं धीरः । अर्च्चायां तिबादयो न स्युरिति रमानाथः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

मानः || पुं, (मन्यते बुद्ध्यतेऽनेन इति मन + घञ् ।)
चित्तसमुन्नतिः । इत्यमरः । १ । ७ । २२ ॥ चित्तस्य समुन्नतिरक्षुद्रता मानः । साञ्जे धना- द्युत्कर्षेणात्मनि चित्तोन्नतिर्मान इति । मत्समो नास्तीति मननं मानः । इति तट्टीकायां भरतः ॥ (यथा, मनौ । ४ । १६३ । “द्वेषं दम्भञ्च मानञ्च क्रोधं तैक्ष्ण्यञ्च वर्जयेत् ॥”)
आत्मनि पूज्यताबुद्धिः । इति नीलकण्ठः ॥ अनुरक्तयोर्दम्पत्योर्भावविशेषः । यथा, —
“दम्पत्योर्भाव एकत्र सतोरष्यनुरक्तयोः । स्वाभीष्टाश्लेषवीक्षादिनिरोधी मान उच्यते ॥” इत्युज्ज्वलनीलमणिः ॥ पूज्यत्वम् । यथा, —
“अधमाः कलिमिच्छन्ति सन्धिमिच्छन्ति मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ मानो हि मूलमर्थस्य माने म्लाने धनेन किम् । प्रभ्रष्टमानदर्पस्य किं धनेन किमायुषा ॥ अधमा धनमिच्छन्ति धनमानौ हि मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥” इति गारुडे ११५ अध्यायः ॥ प्रियापराधसूचिका चेष्टा मानः । स च लघु- र्मध्यमो गुरुश्चेति । अल्पापनेयो लघुः । कष्टा- पनेयो मध्यमः । कष्टतमापनेयो गुरुः । असा- ध्यस्तु रसाभासः । अपरस्त्रीदर्शनादिजन्मा लघुः । गोत्रस्खलनादिजन्मा मध्यमः । अपर- स्त्रीसम्भोगदर्शनादिजन्मा गुरुः । अन्यथासिद्ध- कुतूइलाद्यपनेयो लघुः । अन्यथावादशपथाद्य- पनेयो मध्यमः । चरणपातभूषणदानाद्यपनेयो गुरुः । अपरस्त्रीदर्शनादिजन्मा यथा, —
“स्वेदाम्बुभिः क्वचन पिच्छिलमङ्गभूमौ क्षामोदरि क्वचन कण्टकितञ्चकास्ति । अन्यां बिलोकयति भासयति प्रियेऽपि मानः क्व धास्यति पदं तव तन्न विद्मः ॥” गोत्रस्खलनादिजन्मा यथा, —
“यद्गोत्रस्खलनं तत्तु भ्रमो यदि न मन्यते । रोमालिव्यालसंस्पर्शं शपथं तन्वि ! कारय ॥” अपरस्त्रीसम्भोगदर्शनादिजन्मा यथा, —
“दयितस्य निरीक्ष्य भालदेशं चरणालक्तकपिञ्जरं सपत्न्याः । सुदृशो नयनस्य कोणभासः श्रुतिमुक्ताः शिखरोपमा बभूवुः ॥” इति रसमञ्जरी ॥ ग्रहः । इति मेदिनी । ने, १५ ॥ (परिच्छेदके, त्रि । यथा, ऋग्वेदे । ७ । ८८ । ५ । “बृहन्तं मानं वरुण स्वधावः सहस्रद्बारं जगमा गृहन्ते ।” “मान्त्यस्मिन् सर्वाणि भूतानि इति मानं सर्वस्य भूतजातस्य पुरिच्छेदकमित्यर्थः ।” इति तद्भाष्ये सायनः ॥ पुं, मन्त्रः । यथा, ऋग्वेदे । १ । १८९ । ८ । “अवोचाम निवचनान्यस्मिन्मानस्य सूनुः सहसाने अग्नौ ।” “मीयत इति मानो मन्त्रः तस्य सूनुरग्निः मन्त्रेणोत्पद्यमानत्वात् सप्तम्यर्थे प्रथमा ।” इति तद्भाष्ये सायनः ॥ निर्माता । यथात्रैव । १० । १४४ । ५ । “यं ते श्येनश्चारुमवृकं पदाभरदरुणं मान- मन्धसः ।” “मानं यागद्वारा निर्मातारम् ।” इति तद्भाष्ये सायनः ॥)



Correction: