संस्कृत-शब्दकोशः

माल्यपुष्पिका माल्ल

माल्यवत्

वाचस्पत्यम्

माल्यवत् ||‍ त्रि० माल्यमस्त्यस्य मतुप् मस्य वः । १ माल्ययुक्त केतुमालेनावृतवर्षयोः सीमाभूते २ पर्वतभेदे ३ सुकेशराक्षस पुत्रे रावणमन्त्रिणि राक्षसभेदे च ।


शब्दकल्पद्रुमः

माल्यवान् || [त्] पुं, (माल्य + मतुप् । मस्य वः ।)
पर्व्वतविशेषः । इत्यमरः । २ । ३ । ३ । माल्यं मालाकारता विद्यतेऽत्र माल्यवान् वतु । इति तट्टीकायां भरतः ॥ स च केतुमालेलावृत- वर्षयोः सीमापर्व्वतः । नीलनिषधपर्व्वतपर्य्यन्त- विस्तारः । इति सिद्धान्तशिरोमणिः ॥ (यथा, महाभारते । ३ । १५८ । ३५ । “उपतस्थुर्महाभागा माल्यवन्तं महागिरिम् ।”)
राक्षसविशेषः । स च सुकेशराक्षसात् ग्रामणी- नामकगन्धर्व्वस्य कन्यायां देववत्यां जातः । अस्य भ्राता सुमाली तस्य कन्यायां निकषायां पुलस्त्य- पुत्त्रविश्रवसो रावणो जातः । इति रामायणे उत्तरकाण्डे ५ सर्गः ॥ (मालाविशिष्टे, त्रि । यथा, महाभारते । १ । १७१ । ३१ । “शिरोरुहेषु जग्राह माल्यवतसु धनञ्जयः ।” स्त्रियां ङीप् । नदीभेदः । यथा, रामायणे २ । ५६ । ३५ । “सुरम्यमासाद्य तु चित्रकूटं नदीञ्च तां माल्यवतीं सुतीर्थाम् । ननन्द हृष्टो मृगपक्षिजुष्टां जहौ च दुःखं पुरविप्रवासात् ॥”)



Correction: