वाचस्पत्यम्
माहिषिक || पु० “महिषीत्युच्यते नारी या च स्याद् व्यभि- चारिणी । तां दुष्टां कामयति यः स वै नाहिषिकः स्मृतः” कालीपु० उक्ते १ व्यभिचारिणीपतौ “महिषी- त्युच्यते नार्य्या भगेनोपार्जितं धनम् । उपजीवति यस्तस्याः स वै माहिषिकः स्मृतः” विष्णुपु० व्याख्यायां श्रीधरधृतवाक्योक्ते व्यभिचारिस्त्रिया २ भगोपार्जितद्रव्यो जीविनि च ।
शब्दकल्पद्रुमः
माहिषिकः || पुं, (महिष्यै रोचतेऽसौ । महिषी + ठक् ।)
महिषीपतिः । व्यभिचारिण्यनुरक्त- पतिः ॥ यथा, —
“महिषीत्युच्यते नारी या च स्याद्व्यभिचारिणी । तां दुष्टां कामयतियः स वै माहिषिकः स्मृतः ॥” इति स्कान्दे काशीखण्डम् ॥ महिषोपजीवी ॥ (महिषी नारी पण्यमस्येति । महिषी + “तदस्य पण्यम् ।” ४ । ४ । ५१ । इति ठक् ।)
भगद्वारोपार्ज्जितस्त्रीधनोपजीवी । यथा, “महिषीत्युच्यते नार्य्या भगेनोपार्ज्जितं धनम् । उपजीवति यस्तस्याः स वै माहिषिकः स्मृतः ॥” इति विष्णुपुराणे २ । ६ । १५ श्लोकस्य टीकायां श्रीधरस्वामी ॥