वाचस्पत्यम्
मुक्त || त्रि० मुच क्त । १ त्यक्ते, २ प्राप्तमोक्षे मेदि० । ३ आनन्दिते च शब्दर० ।
शब्दकल्पद्रुमः
मुक्तः || त्रि (मुच् + क्तः ।)
प्राप्तमोक्षः । मोचितः । इति मेदिनी । ते, ४४ ॥ नन्दितः । इति शब्द- रत्नावली ॥ (नृपविशेषः । यथा, राजतरङ्गि- ण्याम् । ७ । १६३५ । “सूदश्चम्पकभृत्यस्य जेलकाख्यस्य तत्क्षणम् । मुक्तो नामान्तिकं प्राप्तो नृपतेराप्ततामगात् ॥” ऋषिविशेषः । यथा, मार्कण्डेये । १०० । ३१ । “अग्नीध्रश्चाग्निबाहुश्च शुचिर्मुक्तोऽथ माधवः । शुक्रोऽजितश्च सप्तैते तदा सप्तर्षयः स्मृताः ॥”)