संस्कृत-शब्दकोशः

मुक्तास्फोटा मुक्तिदं

मुक्ति

वाचस्पत्यम्

मुक्ति ||‍ स्त्री मुच क्तिन् । १ मोचने २ संसारबन्धनराहित्ये मत- भेदेन ३ आत्यन्तिकदुःखनिवृत्तौ, ४ ब्रह्मस्वरूपावाप्तौ च देहेन्द्रियाभ्यामात्मनो ५ बन्धशून्यत्वे च ।


शब्दकल्पद्रुमः

मुक्तिः || स्त्री (मुच् + भावे क्तिन् ।)
आत्यन्तिक- दुःखनिवृत्तिः । इति नैयायिकाः ॥ नित्यसुखा- वाप्तिः । इति वैदान्तिकाः । शरीरेन्द्रियाभ्यां आत्मनो मुक्तत्वं मुक्तिः । इति भरतः । मोक्षः । तत्पर्य्यायः । कैवल्यम् २ निर्व्वाणम् ३ श्रेयः ४ निःश्रेयसम् ५ अमृतम् ६ मोक्षः ७ अपवर्गः ८ । इत्यमरः । १ । ५ । ६ ॥ अपुनर्भवः ९ स्थिरः १० अक्षरम् ११ । इति जटाधरः ॥ सा पञ्चविधा । सार्ष्टिः १ सालोक्यम् २ सारूप्यम् ३ सायुज्यम् ४ निर्व्वाणम् ५ । यथा, — सार्ष्टिसारूप्यसालोक्यसामीप्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥” इति श्रीभागवतम् ॥ “मुक्तिस्तु द्विविधा साध्वि ! श्रुत्युक्ता सर्व्वसम्मता । निर्व्वाणपददात्री च हरिभक्तिप्रदा नृणाम् ॥ हरिभक्तिस्वरूपाञ्च मुक्तिं वाञ्छन्ति वैष्णवाः । अन्ये निर्व्वाणरूपाञ्च सुक्तिमिच्छन्ति साधवः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २२ अध्यायः ॥ * ॥
मुक्तिकरयोगो यथा, —
“वक्ष्ये साङ्गमहायोगं भुक्तिमुक्तिकरं परम् । सर्व्वपापप्रशमनं भक्त्यानुपठितं शृणु ॥ ममेति मूलं दुःखस्य न ममेति च निर्व्वृतेः । दत्तात्रेयो ह्यलर्काय इममाह महामतिः ॥ अहमित्यङ्कुरोत्पन्नौ ममेति स्कन्धवान् महान् । गृहक्षेत्रोपशाखश्च पुत्त्रदारादिपल्लवः ॥ धनधान्यमहापत्रोऽनेककालैर्हि वर्द्धितः । पुण्यापुण्यसपुष्पश्च सुखदुःखमहाफलः । विधिवत् सुखशान्त्यर्थं जातोऽज्ञानमहातरुः ॥ संसाराध्वपरिश्रान्ता येऽत्र च्छायां समा- श्रिताः । भ्रान्तिज्ञानसुखासीनास्तेषामात्यन्तिकं कुतः ॥ यैस्तु सत्सङ्गपाषाणनिशितेन महातरुः । छिन्नो विद्याकुठारेण ते गता लयमीश्वरे ॥ प्राप्य ब्रह्मरसं पीतं नीरजस्कमकण्टकम् । प्राप्नुवन्ति पराः प्राज्ञा ज्ञाननिर्वृत्तिमेव च ॥ मूर्त्तेन्द्रियमयं मूलं नत्वं राजा नचाप्यहम् । न तन्मात्रादिकं वाचा नैवान्तःकरणन्तथा ॥ कं वा पश्यसि राजेन्द्र ! प्रधानमिदमावयोः । मृतः परेऽह्नि क्षेत्रज्ञः संजातोऽयं गुणात्मकः ॥ ममको दुःखमाप्त्यर्थं जातो मत्स्योऽम्भसा यथा । एकत्वेऽपि पृथग्भावस्तथा क्षेत्रात्मनो नृप ! ॥ ज्ञानपूर्ब्बाभियोगोऽतिज्ञानेन सह योगिनः । सा मुक्तिर्ब्रह्मणा चैक्यमनैक्यं पुत्त्र ! ते गुणैः । तद्गृहं यत्र वसतिस्तद्भोज्यं येन जीवति ॥” इति गारुडे २३० अध्यायः ॥ * ॥
अपि च । “हरिरात्मा न सन्देहो यदा तत् समजायत । तदा मुक्तः स संसारी विष्णोरेवात्मतां व्रजेत् । नान्यथा मुच्यते चात्मा भ्रमन् वै घटियन्त्रवत् ॥ पूर्ब्बकर्म्मनिबद्धोऽपि सर्व्वयोनिषु नित्यशः । कूटस्थः पशुतां याति आत्मज्ञानविवर्जितः ॥ कुर्व्वन्नहं ममेतीदमेवं दुःखाय कल्पते । मृद्धेतोर्हि यथा कार्य्यं लिप्यते वै न्वनीश्वरः ॥ क्षीराधानादिभिर्यद्वद्भाण्डं तद्वन्महानसे । चन्द्रकान्तमणिर्यद्वद् गृह्णीते सोपचान् गुणान् । सुखं दुःखं तथा क्षेमं संसरन् नूनमीश्वरः ॥ स्वप्ने यः पुरुषो नित्यमटते कर्म्मबन्धनात् । मन्यमानः सुखं दुःखं सोऽप्येव विप्र ! मुच्यते ॥ जगन्मुक्ते न सृष्टिः स्यादमुक्ते वर्द्धते सदा । तस्माज्जगत्क्षयं विद्यात् ज्ञानं नाधिकमेव च ॥ यत्र तत्र स्थितो ज्ञानी परमाक्षरवित् सदा । विषयान्तरसक्तो वा याति देहे मृते हरिम् ॥ न तस्य प्रतिबन्धोऽस्ति यद्यनीहोऽपि लीलया । कुरुते गृह्यते नैव पद्मपत्रमिवाम्भसा ॥ यथा दुर्द्दिनसंघातं मेघवृन्दैर्व्यवस्थितम् । तदिच्छुर्निर्मलावस्थो ज्ञानी विषयसंज्ञितः ॥ सर्व्वावस्थोऽपि मुच्येत भावयुक्तः परे पदे । जीवन्मुक्तः स मुक्तः स्यान्निद्राविरहितस्तु यः ॥ कर्त्ता हर्त्ता च भोक्ता च सर्व्वज्ञः सर्व्वगो हरिः । एकं स्वच्छन्दलीलस्य मुक्तिरित्यभिधीयते ॥ जीवमुक्तिमजानन्तो मूर्च्छिताकारविग्रहाः । विषमुग्धा इवाभान्ति सूढाश्चैतन्यवर्जिताः ॥ निर्गुणः स तु विज्ञयः सुखदुःखमतीतवान् । जीवनाशो भवेद्यत्र तत् सुखं निष्प्रयोजनम् ॥ मृत्पिण्डदण्डवन्मोक्षस्तन्मोक्षस्तु भवेद्वृथा । तिष्ठन्ति काष्ठवद्ये च संवित्तिपरिवर्जिताः ॥ ते च मायोदरे लीना जडान्धवधिरोपमाः । आकाशवद्भवेदात्मा विदेहो निष्प्रचेतनः ॥ अलं ह्यनेन मोक्षेण चेतनारहितेन च । वरमेव च संसारी विषयासक्तचेतनः ॥ सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् । भुञ्जन्नात्मा उभौ पाशौ संसारे संव्यवस्थितः ॥ ईदृशं हि परं ज्ञानं वेदादीनामशेषतः । सुखस्य च फलं भुङ्क्ते स्वर्गे चेह द्विजोत्तम ! ॥ यत्र वासः परे स्थाने सुखदुःखविवर्जितः । केवलं जीवनाशोऽयं प्रोक्तज्ञानमजानता ॥ चेतनारहितो ज्ञानमाकाशस्थोऽप्यचेतनः । मृत्पिण्डदण्डलोष्टादिशिलापट्टककुड्यवत् ॥ अथ श्रान्तो नरो यद्वत् सुसुप्तः सुखमश्नुते । बोध्यमानः सचेतापि सुखाद्बोद्धुं न मन्यते ॥ * ॥
केषां मुक्तमिदं मोक्षः सुखमत्यन्तकेवलम् । तदहं संप्रवक्ष्यामि शृणुष्व गदतो मम ॥ दुःखानामागमो नास्ति यत्र सौख्यं निरन्तरम् । विद्यते तत् परं दृष्ट्वा योऽप्यानन्दसुखी भवेत् ॥ ब्रह्यज्ञानप्रविन्नाञ्च स्वच्छन्दात्मबलान्विताः । न तेषां पुनरावृत्तिर्यान्ति विष्णुलयं बुधाः ॥ अस्ति देवो हरिः शान्तः कारणोपायवर्जितः । तं ज्ञात्वा तु भवेन्मुक्तिर्निर्म्मला काययोगिनः ॥ ब्रह्मा विष्णुश्च रुद्रश्च चन्द्रसूर्य्यादयः सुराः । न विभक्तिं शरीरस्य यान्ति मुक्तिर्न विद्यते ॥ तस्मादाराधनीयोऽपि संयमेन्द्रियगोचरः । विष्णुर्मायापतिर्यो वै यदीच्छेन्मुक्तिमात्मनः ॥ नान्यत्र विद्यातपसो नान्यत्रेन्द्रियनिग्रहात् । नान्यत्र सर्व्वसंत्यागात् मोक्षं बिन्दति मानवः ॥ तस्माद्धर्म्ममुखो भूत्वा संयम्यात्मानमात्मना । धर्म्मं कुर्य्याद्विहायैनो धर्म्मात्मा सुखमेधते ॥ धर्म्मादेवाप्यते देहो दाराः पुत्त्रा धनं तथा । धर्म्मात् स्वर्गश्च मोक्षश्च यदन्यदपि दुर्लभम् ॥ ऋषयो देवगन्धर्व्वाः स्वधर्म्ममनुगामिनः । स्वर्गे तिष्ठन्ति विप्रर्षे ! ततो यास्यन्ति सद्गतिम् ॥ धर्म्ममर्थञ्च कामञ्च मोक्षञ्च ऋषिसत्तम् ! । समाप्नोति पुमान्नित्यं नारायणपरायणः ॥” इति वह्निपुराणम् ॥ (निरुक्तिर्यथा, सांख्यसूत्रम् । ६ । २० । “मुक्तिरन्तरायध्वस्तेर्न परः ।” यथाच, अष्टावक्रसंहितायाम् । १ । २ । “मुक्तिमिच्छसि रे तात ! विषयान् विषवत्त्यज । क्षमार्ज्जवदयातोषसत्यं पीयूषवद्भज ॥”)



Correction: