वाचस्पत्यम्
मुख || न० खन—अच् डित् धातोः पूर्वं मुट् च । “प्रजासृजा यतः खातं तस्मादाहुर्मुखं बुधाः” इत्युक्ते देहावयवभेदे । “ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च । गलो गलादि सकलं सप्ताङ्गं मुखमुच्यते” इत्युक्ते गलादि- सप्तात्मकावयववति २ वदने भावप्र० । ३ गृहस्य निस्मरण- र्वर्त्मनि, अमरः । ४ हट्टमण्डपादेः प्रवेशनिर्गमे, ५ आरम्भे, ६ उपाये, ७ नाटकादौ सन्धिभेदे मेदि० ८ नाटकादि- शब्दभेदे, ९ आद्ये, १० प्रधाने, ११ शब्दे, १२ वेदे, च शब्दर० । १३ लकुचवृक्षे पु० (डेओ) शब्दच० ।
शब्दकल्पद्रुमः
मुखं || क्ली (खनति विदारयति अन्नादिकमनेन खन्यते विधात्रा सुखमनेति वेति । खन् + “डित्- खनेर्मुट् चोदात्तः ।” उणा० । ५ । २० । इति करणे अच् । स च डित् मुडागमश्च ।)
शरीरावयवविशेषः । स तु मुखविवरम् ॥ (तन्निरुक्तिर्यथा, — ‘प्रजासृजा यतः खातं तस्मादाहुर्मुखं बुधाः ।’ इत्यमरटीकाधृतम् ।)
कवयस्तु तदुपलक्षिते समुदाये प्रयुञ्जते । इति भरतः ॥ तत्तु गर्भस्थस्य पञ्चमासैर्भवति । इति सुखबोधः ॥ तत्पर्य्यायः । वक्त्रस् २ आस्यम् ३ वदनम् ४ तुण्डम् ५ आननम् ६ लपनम् ७ । इत्यमरः । २ । ६ । ८९ ॥ (यथा, नैषधचरिते ९ । ४४ । “मुखं विमुच्य श्वसितस्य धारया वृथैव नासापथधावनश्रमः ।”)
तस्य स्वरूपं यथा, — ‘ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च । गलो गलादि सकलं सप्ताङ्गं मुखमुच्यते ॥’ इति भावप्रकाशः ॥ रतिक्रियायां स्वस्त्रीमुखस्य स्नेहात् स्वबालक- मुखस्य च चुम्बने शुद्धत्वं यथा, —
“मक्षिका सन्तता धारा मार्ज्जारो ब्रह्मबिन्दवः । स्त्रीमुखं बालकमुखं न दुष्टं मनुरब्रवीत् ॥” इति कर्म्मलोचनम् ॥ * ॥
निःसरणम् । इत्यमरः । २ । ३ । १९ ॥ तत्तु गृहस्य निष्क्रमणप्रवेशनवर्त्म । इति सर्व्वधरा- दयः । गृहादिद्वारप्रवेशः । इति स्वामी । हट्ट- मण्डपादेः प्रवेशनिर्गमः । इति कोक्कटः । गृहाङ्गणादिनिःसरणपथः । इति रमानाथः । इत्यमरटीकायां भरतः ॥ प्रारम्भः ॥ (यथा, रघुवंशे । ३ । १ । “अथेप्सितं भर्त्तुरुपस्थितोदयं सखीजनोद्बीक्षणकौमुदीमुखम् । निदानमिक्षाकुकुलस्य सन्ततेः सुदक्षिणा दौर्हृदलक्षणं दधौ ॥” “कौमुद्याः मुखं प्रारम्भम् ।” इति तट्टीकायां मल्लिनाथः ।)
उपायः ॥ सन्धिविशेषः ॥ (यथा, दशरूपके । १ । २३ । “मुखं बीजसमुत्पत्तिर्नानार्थरससम्भवा । अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात् ॥”)
नाटकादेः शब्दः । इति मेदिनी । खे, ४ ॥ आद्यम् ॥ (यथा, रामायणे । २ । ५० । ७ । “अचक्षुर्विषयं प्रायाद् यथार्कः क्षणदामुखे ॥”)
प्रधानम् ॥ (यथा, महाभारते । २ । ३८ । २७ — २९ । “राजा मुखं मनुष्याणां नदीनां सागरो मुखम् । नक्षत्राणां मुखं चन्द्र आदित्यस्तेजसां मुखम् ॥ पर्व्वतानां मुखं मेरुर्गरुडः पततां मुखम् । सदेवकेषु लोकेषु भगवान् केशवो मुखम् ॥”)
शब्दः । नाटकः । वेदः । इति शब्दरत्नावली ॥ (द्बारम् । यथा, रघुवंशे । ३ । २८ । “लिपेर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रमाविशत् ॥” “नद्या मुखं द्वारम् । मुखन्तु वदने मुख्यारम्भे द्वाराभ्युपाययोरिति यादवः ।” इति तट्टीकायां मल्लिनाथः ॥ अग्रभागः । यथा, हठयोगप्रदीपि- कायाम् । ३ । ५ । “तस्मात् सर्व्वप्रयत्नेन प्रबोधयितुमीश्वरीम् । ब्रह्मद्वारमुखे सुप्तां मुद्राभ्यासं समाचरेत् ॥”)
शब्दकल्पद्रुमः
मुखः || पुं, डहुः । यथा, — ‘लकुचो लिकुचो नुत्तः खगवक्त्रो मुखो डहुः ।’ इति शब्दचन्द्रिका ॥