वाचस्पत्यम्
मुखर || त्रि० मुखं मुखव्यापारं कथनं राति दत्ते करो- तीति यावत् रा—क । १ अप्रियवादिनि अमरः । २ अग्रे- वादिनि च “मुखरस्तत्र हन्यते” इति हितोपदेशः । ३ काके पुंस्त्री० स्त्रियां ङीष् । ४ शङ्खे पु० राजनि० ।
शब्दकल्पद्रुमः
मुखरः || त्रि (मुखं अस्यास्तीति । मुख + उष- सुषिमुष्कमधो रः ।” ५ । २ । १०७ । इत्यत्र “रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम् ।” इति काशिकोक्त्या सर्व्वस्मिन् वक्तव्ये रः । “निन्दितं मुखमस्यास्तीति रः ।” इत्यमरटीका ।)
अप्रिय- वादी । तत्पर्य्यायः । दुर्मुखः २ अबद्धमुखः ३ । इत्यमरः । ३ । १ । ३६ ॥ (यथा, —
“एका भार्य्या प्रकृतिमुखरा चञ्चला च द्वितीया ।” इत्युद्भटः ॥ शब्दायमानः । यथा, मृच्छकटिकनाटके १ अङ्के । “त्वां सूचयिष्यति तु माल्यसमुद्भवोऽयं गन्धश्च भीरु ! मुखराणि च नूपुराणि ॥” अग्रयायी । यथा, हितोपदेशे । “यदि कार्य्ये विपत्तिः स्यान् मुखरस्तत्र हन्यते ॥”)
शब्दकल्पद्रुमः
मुखरः || पुं, (मुख + रः ।)
काकः । शङ्खः । इति राजनिर्घण्टः ॥