वाचस्पत्यम्
मूक || पु० मू—कक् । १ मत्स्ये त्रिका० २ दैत्यभेदे भेदि० ३ दीवे हेम० वाक्शक्तिरहिते च त्रि० अमरः ।
शब्दकल्पद्रुमः
मूकः || त्रि (मव्यते बध्यतेऽसौ । मव + बाहुलकात् कक् ।” उणा० ३ । ४१ । इति उपधायाया वकारस्य चोठ् ।)
वाक्यरहितः । वोवा इति भाषा । तत्पर्य्यायः । अवाक् २ । इत्यमरः । ३ । १ । १३ । (यथा, महाभारते । २ । ५ । १२५ । “कच्चिदन्धांश्च मूकांश्च पङ्गून् व्यङ्गानबान्धवान् । पितेव पासि धर्म्मज्ञ ! तथा प्रव्रजितानपि ॥” अस्योत्पत्तिहेतुर्यथा, गर्भवैकृत्यात् “गर्भो वातप्रकोपेण दौर्हृदे चावमानिते । भवेत् कुब्जः कुणिः पङ्गुर्मूको मिण्मिण एवच ॥” इति सुश्रुते शारीरस्थाने द्बितीयेऽध्याये ॥ रोगत्वेनास्य विषयो यथा, —
“आवृत्य वायुः सकफो धमनीः शब्दवाहिनीः । नरान् करोत्यक्रियकान् मूकमिण्मिण गद्- गदान् ॥” इति च तत्र निदानस्थाने प्रथमेऽध्याये ॥)
शब्दकल्पद्रुमः
मूकः || पुं, (मव्यते बध्यते जालिकैरिति । मव + कक् । पूर्व्ववत्सर्वम् ।)
मत्स्यः । इति त्रिकाण्ड- शेषः ॥ दैत्यः । इति मेदिनी । के, ३१ ॥ (दानवभेदः । यथा, महाभारते । ३ । ३९ । ७ । “स सन्निकर्षमागम्य पार्थस्याक्लिष्टकर्म्मणः । मूकं नाम दनोः पुत्त्रं ददर्शाद्भुतदर्शनम् ॥”)
दीनः । इति हेमचन्द्रः । ३ । १३ । (तक्षक- पुत्त्रः । यथा, महाभारते । १ । ५७ । १० । “शिली शलकरो मूकः सुकुमारः प्रवेपनः । मुद्गरः शिशुरोमा च सुरोमा च महाहनुः ॥ एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् ॥”)