वाचस्पत्यम्
मूल || न० मूल—क । १ शिफायाम् (जड) (शिकड) अमरः २ आद्ये ३ निकुञ्जे ४ नक्षत्रभेदे ५ अन्तिके विश्वः ६ बाणि- ज्याद्युपयोनिनि ७ मूलधने, मेदि० । ८ निजे अजयः । ९ चरणे १० शूरणे शब्दमा० ११ पिप्पलीमूले १२ पुष्करमूले राजनि० । १३ टीकादिना व्याख्येयग्रन्थे च अश्विन्यवधिके ऊनविंशे नक्षत्रे अस्त्री० ति० त० शबदर० स्त्रीत्वमुक्तम् ।
वाचस्पत्यम्
मूल || प्रतिष्ठायां भ्वा० उभ० अक० सेट् । मूलति ते अमूलीत् अमूलिष्ट ।
वाचस्पत्यम्
मूल || रोपणे चुरा० उभ० सक० सेट् । मूलयति ते अमूमुलत् त ।
शब्दकल्पद्रुमः
मूल || क रोपणे । इति कविकल्पद्रुमः ॥ (चुरा०- उभ०-सक०-सेट् ।)
दीर्घी रोपणमारोपणम् । क मूलयति वृक्षं लोकः । गोविन्दभट्टस्तु रोहणे इति पठित्वा रोहणं जन्मेति व्याख्याति । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
मूलं || क्ली (मवते बध्नाति वृक्षादिकमिति । मू + “मूङ्शक्यविभ्यः क्लः ।” उणा० ४ । १०८ । इति क्लः ।)
शिफा । शिकड इति भाषा । तत्पर्य्यायः । व्रध्नः २ अङ्घ्रिनामकः ३ । इत्यमरः । २ । ४ । १२ ॥ कन्दः ४ वृध्नः ५ । इति शब्दरत्नावली ॥ जटा ६ । इति जटाधरः ॥ (यथा, मनौ । ३ । २२७ । “भक्ष्यं भोज्यञ्च विविधं मूलानि च फलानि च । हृद्यानिचैव मांसानि पानानि सुरभीणि च ॥”)
आद्यम् ॥ (यथा, महाभारते । १ । १६१ । १ । “कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः । विदित्वाप्यपकर्षेयं शक्यञ्चेदपकर्षितुम् ॥”)
नक्षत्रविशेषः ॥ (यथा, मार्कण्डेये । ३३ । १३ । “कुर्वन्तश्चानुराधासु लभन्ते चक्रवर्त्तिताम् । आधिपत्यञ्च ज्येष्ठासु मूले चारोग्यमुत्तमम् ॥” निकुञ्जः । अन्तिकम् । इति विश्वः ॥ (यथा, मार्कण्डेये । ८६ । ६ । ‘जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः ।)
मूलवित्तम् । इति भरतधृतमेदिनी ॥ (यथा, मनौ । ८ । २०२ । “अथ मूलमनाहार्य्यं प्रकाशक्रयशोधितः । अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् ॥”)
निजम् । इत्यजयपालः ॥ चरणम् । इत्युणादि- कोषः ॥ (यथा, ऋग्वेदे । १० । ८७ । १० । “त्रेधा मूलं यातुधानस्य वृश्च ।” “मूलं पादम् ।” इति तद्भाष्ये सायणः ॥)
टीकार्हग्रन्थः । यथा । समानवलेत्यादि मूलम् । इति सत्प्रतिपक्षे गदाधरभट्टाचार्य्यः । शूरणम् । इति शब्दचन्द्रिका ॥ पिप्पलीमूलम् । पुष्कर- मूलम् । इति राजनिर्घण्टः ॥ विशेषमूलस्य अन्वेषणनिषेधो यथा, —
“नदीनामग्निहोत्राणां भारतस्य कुलस्य च । मूलान्वेषो न कर्त्तव्यो मूलाद्दोषो न हीयते ॥” इति गारुडे ११६ अध्यायः ॥ (कारणम् । यथा, मनौ । ११ । ८४ ॥ “धर्म्मस्य ब्राह्मणो मूलमग्रं राजन्य उच्यते । “मूलं कारणम् ।” इति तट्टीकायां कुल्लूक- भट्टः ॥)
शब्दकल्पद्रुमः
मूल || ञ प्रतिष्ठायाम् । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-अक०-सेट् ।)
पवर्गशेषादिर्दीर्घी । प्रतिष्ठा स्थितिरिति गोविन्दभट्टः । ञ मूलति मूलते यशः । अयं परस्मैपदीत्यन्ये । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
मूलः || त्रि (मूलतीति । मूलप्रतिष्ठायाम् + कः ।)
अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतोनविंशनक्ष- त्रम् । यथा, —
“हस्ता स्वाती श्रवणा अक्लीवे मृगशिरो नपुंसि । स्यात् पुंसि पुनर्व्वसुपुष्यौ मूलन्त्वस्त्री स्त्रियां शेषाः ॥” इति तिथ्यादितत्त्वम् ॥ “मूलमाद्ये शिफायाञ्च निकटे भे तु वास्त्रि- याम् ।” इति शब्दरत्नावली च ॥ स तु निरृतिदेवताकः । इति ज्योतिस्तत्त्वम् ॥ सिंहपुच्छाकारः । इति मुहूर्त्तचिन्तामणिः ॥ शङ्खमूर्त्तिर्नवतारामयश्च । अस्मिन् मस्तकोप- र्य्युदिते मीनलग्नस्याष्टौ पलानि गतानि भवन्ति । यथा, —
“मौलिभाजि नवतारकाङ्किते मूलभे सुतनु ! शङ्खमूर्त्तिनि । लिप्तिकाष्टकमरालकुन्तले निर्जगाम पृथुरोमलग्नतः ॥” इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥ अस्मिन् नक्षत्रे जातस्य फलम् । “मूलं विरुद्धावयवं समूलं कुलं दहत्येव वदन्ति सन्तः । चेदन्यथातः पुरुषा विशेषात् सौभाग्यमायुश्च कुलानुवृद्धिः ॥” इति कोष्ठीप्रदीपः ॥ अस्मिन् मांसभक्षणनिषेधो यथा, —
“चित्रास्वहस्ताश्रवणासु तैलं क्षौरं विशाखाप्रतिपत्सु वर्ज्यम् । मूले मृगे भाद्रपदासु मांसं योषिन्मघाकृत्तिकसोत्तरासु ॥” इति तिथ्यादितत्त्वम् ॥