संस्कृत-शब्दकोशः

मूषातुत्थ मूषिकपर्णी

मूषिक

वाचस्पत्यम्

मूषिक ||‍ पुंस्त्री० मूष—इन् । १ उन्दुरौ अमरः स्त्रीत्वे टाप् । २ मुषिकपर्ण्यां स्त्री शब्दर० ३ मूषायां भरतः ।


शब्दकल्पद्रुमः

मूषिकः || पुं, (मूष्णाति द्रव्याणीति । मूष् + “मुषेर्दीर्घश्च ।” उणा० २ । ४२ । इति किकन् दीर्घश्च ।)
जन्तुविशेषः । इन्दुर इति भाषा । (यथा, हितोपदेशे मित्रलाभप्रकरणे । १३१ । “धनेन बलवान् सर्व्वो धनाद्भवति पण्डितः । पश्यायं मूषिकः पापः स्वजातिसमतां गतः ॥”)
तत्पर्य्यायः । उन्दुरुः २ आखुः ३ । इत्यमरः । २ । ५ । १२ ॥ मूषः ४ मूषीकः ५ उन्दूरुः ६ बभ्रुः ७ वृषः ८ आखनिकः ९ वृशः १० । इति शब्दरत्नावली ॥ मूषकः ११ पिङ्गः १२ उन्दु- रुकः १३ नखी १४ खनकः १५ विलकारी १६ धान्यारिः १७ बहुप्रजः १८ । अस्य मांस- गुणाः । “अहिनकुलशल्यगोधामूषकमुख्या विलेशयाः कथिताः । श्वासानिलकाशहरं तन्मांसं पित्तदाहकरम् ॥ अन्ये विलेशया ये स्युः केङ्किडोन्दुरुकादयः । गर्हितं तस्य मांसञ्च मद्यगौरवदुर्ज्जरम् ॥” इति राजनिर्घण्टः ॥ अपि च । “मूषिको मधुरः स्निग्धो व्यवायी बलबर्द्धनः ।” इति राजवल्लभः ॥ * ॥
पारिभाषिकमूषिको यथा, —
“विभवे सति नैवात्ति न ददाति जुहोति च । तमाहुराखुं तस्यान्नं भुक्त्वा कृच्छ्रेण शुध्यति ॥” इति मार्कण्डेयपुराणे आचाराध्यायः ॥ (जनपदविशेषः । यथा, महाभारते । ६ । ९ । ५८ । “द्रविडाः केरलाः प्राच्या मूषिका वन- वासिका ॥”)



Correction: