संस्कृत-शब्दकोशः

मृक्ष मृगक्षीर

मृग

वाचस्पत्यम्

मृग ||‍ अन्वेषणे दिवा० पर० सक० सेट् । मृग्यति अमर्गीत् ।


वाचस्पत्यम्

मृग ||‍ अन्वेषणे याचने च अद० चु० आ० सक० सेट् मृगयते अमभृगत ।


वाचस्पत्यम्

मृग ||‍ पु० मृग—क । १ पशुमात्रे, २ गजभेदे, ३ अश्विन्यवधिके पञ्चमे न क्षत्रे पु० । अ० चु० मृग—भावे अच् । ४ अन्वेषणे पु० ५ याचने च मेदि० ६ यज्ञभेदे ७ मार्गशीर्षे मासि अजयः अच् । ८ मृगमदे, भरतः ९ मकरराशौ च पु० ज्यो० त० । १० हरिणे अमरः सर्वतः जातौ स्त्रियां ङीष् ११ नरभेदे “मृगे तुष्टा च चित्रिणी” रतिमञ्जरो ।


शब्दकल्पद्रुमः

मृग || त् क ङ मार्गणे । (चुरा०-आत्म०-सक०- सेट् ।)
ङ रामो मृगं मृगयते वनवीथिकासु । इति महानाटकम् । कातन्त्रादौ मृग्ये अन्ये- षणे इति दिवादिपरस्मैपदी धातुश्च दृश्यते दुर्गत्रिलोचनयोरसम्मतत्वात् अनेनोपेक्षितः । मृग्यन्तः पदवीं तथाप्यकरुणा व्याधा न मुञ्चन्ति माम् । इति तु अकारान्तस्यैव भावे क्विपि अकारलोपे मृगं करोतीति कण्ड्वादित्वात् क्ये साध्यम् । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

मृगः || पुं, (मृगयते अन्वेषयति तृणादिकं मृम्यते वा इति । मृग् + इगुपधत्वात् कर्त्तरि च कः ।)
पशुमात्रम् । (यथा, मनुः । ५ । ९ । “आरण्यानाञ्च सर्व्वेषां मृगाणां माहिषं विना ।” मृगशब्दोऽत्र महिषपर्य्युदासात् पशुमात्रपरः । इति तट्टीकायां कुल्लूकः ।)
हस्तिविशेषः । नक्षत्रभेदः । (यथा, इन्द्रजालतन्त्रे । “अश्विनीमृगमूलाश्च पुष्या पुनर्व्वसुस्तथा ॥”)
अन्वेषणम् । (यथा, साहित्यदर्पणे । ४ । १७ । “जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् । कृतालङ्काभर्त्तर्वदनपरिपाटीषुघटना मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥” कनकस्य सुवर्णस्य मृगे अन्वेषणे । पक्षे । कनकमृगे हेमहरिणे या तृष्णा इत्यर्थः ।)
याच्ञा । इति मेदिनी । गे, १८ ॥ मार्गशीर्ष- मासः । यज्ञविशेषः । इत्यजयपालः ॥ मृग- नाभिः । इत्यमरटीकायां भरतः ॥ मकर- राशिः । यथा, —
“मृगकर्कटसंक्रान्ती द्वे तूदग्दक्षिणायने । विषुवती तुलामेषे गोलमध्ये तथापराः ॥” इति तिथ्यादितत्त्वम् ॥ स्वनामख्यातपशुविशेषः । मृग्यते अन्विष्यतेऽसौ व्याधैः । (यथा, अभिज्ञानशाकुन्तले । १ । १० । “न खलु न खलु बाणः सन्निपात्योऽयमस्मिन् मृदुनि मृगशरीरे तूलराशाविवाग्निः ।”)
तत्पर्य्यायः । कुरङ्गः २ वातायुः ३ हरिणः ४ अजिनयोनिः ५ । इत्यमरः ॥ शारङ्गः ६ चारुलोचनः ७ जिनयोनिः ८ कुरङ्गमः ९ ऋष्यः १० ऋश्यः ११ रिष्यः १२ रिश्यः १३ एणः १४ एणकः १५ । इति शब्दरत्नावली ॥ स नवविधः । यथा, —
“सम्बरो रोहितो न्यङ्कुकुरङ्गसुदृशो रुरुः । एणश्च हरिणश्चेति मृगा नवविधा मताः ॥ पाठान्तरं यथा, —
“समूरू रोहितो न्यङ्कुः सम्बरो बभ्रुणो रुरुः । शशैणहरिणाश्चेति मृगा नवविधा मताः ॥ हरिणश्चापि विज्ञेयः पञ्चभेदोऽत्र भैरव ! । ऋष्यः खड्गो रुरुश्चैव पृषतश्च मृगस्तथा । एते बलिप्रदाने च चर्म्मदाने च कीर्त्तिताः ॥” इति कालिकापुराणे ६७ अध्यायः ॥ * ॥
अपि च । अथ जाङ्गलानां गणना । “हरिणैणकुरङ्गर्ष्यपृषतन्यङ्कुसम्बराः । राजीवोऽपि च मुण्डी चेत्याद्या जाङ्गलसंज्ञकाः ॥ हरिणस्ताम्रवर्णः स्यादेणः कृष्णः प्रकीर्त्तितः । कुरङ्ग ईषत्ताम्रः स्याद्धरिणाकृतिको महान् ॥ ऋष्यो नीलाण्डको लोके सरोरुरिति कीर्त्तितः । पृषतश्चन्द्रबिन्दुः स्याद्धरिणात् कियदल्पकः ॥ न्यङ्कुर्बहुविषाणोऽथ शम्बरो गवयो महान् । राजीवस्तु मृगो ज्ञेयो राजीभिः परितो वृतः । यो मृगः शृङ्गहीनः स्यात् स मुण्डीति निग- द्यते ॥” अथ तेषां गुणाः । जङ्घालाः प्रायशः सर्वे पित्तश्लेष्महराः स्मृताः । किञ्चिद्वातकराश्चापि लघवो बलवर्द्धनाः ॥” इति भावप्रकाशः ॥ अथ मृगपरीक्षा । “मृगनाभिं समादातुं कौतुकार्थं तथा पुनः । मृगाः पोष्या महीन्द्राणां तेषां वक्ष्यामि लक्षणम् ॥ पृथिव्यब्वायुगगनास्तेजोऽधिकास्तु पञ्चधा । मिद्यन्ते नैकभेदास्तु समस्ता मृगजातयः ॥” तद्यथा, — ‘ये गन्धिनः क्षीणशरीरकर्णा- स्ते पार्थिवा गन्धमृगाः प्रदिष्टाः । सर्व्वाङ्गमेषां सुरभि प्रकामं पुण्ये प्रदेशे प्रभवन्ति ते तु ॥ ये वै विशाला गुरुदीर्घशृङ्गा अमांसलास्तीब्रखुरप्रदेशाः । आप्यास्तु ते वै प्रसरन्ति भूरि सर्व्वत्र देशे प्रभवन्ति चैव ॥ धावन्ति ये वातमिवान्तरीक्षे दीर्घास्तु ते वातमृगाः प्रदिष्टाः । ते यत्र यत्रैव भवन्ति शक्ता- स्तत्रैव सर्व्वाणि शुभानि सन्ति ॥ लघुप्रमाणा लघुवीर्य्यसत्त्वा निर्गन्धदेहाश्छगलप्रमाणाः । ते गागना वेगकरा नराणां स्पृश्या न ते नापि निरीक्षणीयाः ॥ ये कृष्णवर्णा गुरुदीर्घशृङ्गाः क्रुद्धा भृशं यान्ति च वायुवेगाः । ते कृष्णसाराः खलु तैजसास्तु पुण्यप्रदेशे प्रभवन्ति ते तु ॥’ भोजोऽप्याह । ‘पार्थिवादिर्मृगः सर्व्वश्चतुर्जातिर्भवेत् पृथक् । सुशृङ्गास्तनुलोमानो ब्राह्मणा मृगजातयः ॥ क्रुद्धाः पश्वरिशृङ्गाश्च क्षत्त्रियाः खरलोमशाः । आवर्त्तशृङ्गास्तनवो हरिणा वैश्यजातयः ॥ कुशृङ्गा वाप्यशृङ्गा वा शूद्राः खरतनूरुहाः । अश्वानां ये गुणा दोषास्ते ज्ञेया हरिणेष्वपि ॥ तथापि दोषाः पञ्चामी वक्ष्यन्ते हरिणाश्रयाः । नेत्रयोरन्तरे यस्य लोमावर्त्ताः स पापकृत् ॥ विषमौ विकृतौ शृङ्गौ यस्य सं क्षेमनाशनः । आवर्त्तः पृष्ठतो यस्य आनाभिमभिबिन्दति ॥ पश्चार्द्ध यस्य वावर्त्तस्तौ त्याज्यौ भयकारकौ । वर्णनेत्रपदादीनां वैकृताद्धननाशनः ॥’ गार्ग्यः । ‘दोषवन्मृगजातीनां विजातीनामथापि वा । दर्शनात् स्पर्शनाच्चैव गन्धादानाच्च पोषणात् । भवेयुर्व्विपदः सर्व्वास्तथा चैवाद्यपोषणात् ॥’ शङ्खोऽपि । ‘हरिणपोषणतो धरणीभुजां नहि भवेन्मरुद्भवपीडनम् । न पविवह्निरुजारिपुजं भयं तदव तं हरिणं गुणिनं नृप ! ॥’ इति मृगपरीक्षा ॥ इति युक्तिकल्पतरुः ॥ (अस्य गुणविशेषो यथा, —
“दूरे जनान्तनिलया दूरे पानीयगोचराः । ये मृगाश्च विहङ्गाश्च तेऽल्पाभिष्यन्दिनो मताः ॥ अतीवासन्ननिलयाः समीपोदकगोचराः । ये मृगाश्च विहङ्गाश्च महाभिष्यन्दिनस्तु ते ॥” इति सुश्रुते सूत्रस्थाने ४५ अध्यायः ॥)
मृगादिविकारोपशमो यथा, — गर्ग उवाच । “प्रविशन्ति यदा ग्राममारण्या मृगपक्षिणः । अरण्यं यान्ति वा ग्राम्याः स्थलं यान्ति जलोद्भवाः ॥ स्थलजाश्च जलं यान्ति घोरं रासन्ति निर्भयाः । गृहं कपोतः प्रविशेत् क्रव्यादो मूर्द्ध्नि नीयते ॥ मधु वा मक्षिकाः कुर्य्युर्मृत्युं गृहपतेर्वदेत् ॥ मृगपक्षिविकारेषु कुर्य्याद्धोमं सदक्षिणम् । देवाः कपोते इति च जप्तव्याः पञ्चभिर्द्विजैः ॥ गावश्च देया विधिवत् द्विजानां सकाञ्चना वस्त्रयुगोत्तरीयाः । एवं कृते शान्तिमुपैति पापं मृगैर्द्बिजैर्व्वा विनिवेदितं यत् ॥” इति मात्स्ये २११ अध्यायः ॥ चतुर्व्विधपुरुषमध्ये पुरुषविशेषः । तस्य लक्षणं यथा, — वदति मधुरवार्णीं दीर्घनेत्रोऽतिभीरु- श्चपलमतिसुदेहः शीघ्रवेगो मृगोऽयम् । “शशके पद्मिनी तुष्टा मृगे तुष्टा च चित्रिणी । वृषभे शङ्खिनी तुष्टा हये तुष्टा च हस्तिनी ॥ पद्मिनीशशयोर्योनिमेढ्रकौ चतुरङ्गुलौ । चित्रिणीमृगयोर्योनिमेढ्रकौ च तथाविधौ ॥” इति रतिमञ्जरी ॥ (अन्वेष्टा । यथा, ऋग्वेदे । १ । १५४ । २ । “मृगो न भीमः कुचरो गिरिष्ठा ।” “मृगः अन्वेष्टा ।” इति तद्भाष्ये सायणः ॥)



Correction: