वाचस्पत्यम्
मोघ || त्रि० मुह—घ अच् वा कुत्वम् । १ निरर्थके अमरः २ हीने ३ पाटलावृक्षे मेदि० ४ विडङ्गे च स्त्री हेम० ५ प्राचीरे पु० शब्दमा० ।
शब्दकल्पद्रुमः
मोघं || त्रि (मुह्यतेऽस्मिन्निति । मुह + घञ् । न्यङ्क्वादित्वात् कुत्वम् ।)
निरर्थकम् । इत्यमरः । ३ । १ । ८१ ॥ (यथा, मनौ । ९ । ५० । “यदन्यगोषु वृषभो वत्सानां जनयेच्छतम् । गोमिनामेव ते वत्सा मोघं स्कन्दितमार्षभम् ॥” यथा च । “प्रेतभूतपिशाचाश्च रक्षांसि विविधानि च । मरणाभिमुखं नित्यमुपसर्पन्ति मानवम् ॥ तानि भेषजवीर्य्याणि प्रतिघ्नन्ति जिघांसया । तस्मान्मोघाः क्रियाः सर्व्वा भवन्त्येव गतायुषः ॥” इति सुश्रुते सूत्रस्थाने ३१ अध्याये ॥)
हीनम् । इति मेदिनी । घे, ४ ॥ (यथा, आर्य्यासप्तशत्याम् । ६७० । “सज्जन एव हि विद्या शोभायै भवति दुर्ज्जने मोघा ॥”)
शब्दकल्पद्रुमः
मोघः || पुं, (मुह्यत्यस्मिन् । मुह + घञ् । कुत्वम् ।)
प्राचीरम् । इति शब्दमाला ॥