संस्कृत-शब्दकोशः

मोदिनी मोरटक

मोरट

वाचस्पत्यम्

मोरट ||‍ न० मुर—अटन् । १ इक्षुमूले, २ अङ्कोटपुष्पे ३ सप्त- रात्रोषितक्षीरे च मेदि० । ४ मूर्वालतायां स्त्री अमरः । ५ क्षीरमोरटायां पु० राजनि० ।


शब्दकल्पद्रुमः

मोरटं || क्ली (मुर वेष्टने + “शकादिभ्योऽटन् ।” उणा० ४ । ८१ । इति अटन् ।)
इक्षुमूलम् । अङ्कोठपुष्पम् ॥ सप्तरात्रात् परक्षीरम् । इति मेदिनी । टे, ५४ ॥ (यथा, वैद्यकरत्नमालायाम् । “परतो मोरटं विद्यादप्रासन्नं कफात्मकम् ॥” यथा च । “नष्टदुग्धभवन्नीरं मोरटञ्जेज्जडोऽब्रवीत् ।” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)


शब्दकल्पद्रुमः

मोरटः || पुं, (मुर + अटन् ।)
लताप्रमेदः । क्षीर- मोरटा इति भाषा । तत्पर्य्यायः । कर्ण- पुष्पः २ पीलुपत्रः ३ मधुस्रवः ४ घनमूलः ५ दीर्घमूलः ६ पुरुषः ७ क्षीरमोरटः ८ । क्वचित् पुस्तके कर्णपुष्पस्थाने क्षीरपुष्प इति पीलुपत्र- स्थाने पीलुपुत्त्र इति च पाठः ॥ (तथास्य पर्य्यायान्तरम् । “पीलुपर्णी घनरसो हस्तिपर्णी च मोरटः ॥” इति वैद्यकरत्नमालायाम् ॥)
अस्य गुणाः । क्षीरबहुलत्वम् । मधुरत्वम् । कषायत्वम् । पित्तदाहज्वरनाशित्वम् । वृष्य- त्वम् । बलविवर्द्धनत्वञ्च । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते । १ । ४५ अध्याये । “गुरुः किलाटोऽनिलहा पुंस्त्वनिद्राप्रदः स्मृतः । मधुरौ बृंहणौ वृष्यौ तद्बत्पीयूषमोरटौ ॥”)



Correction: