वाचस्पत्यम्
मौल || त्रि० भूलं वेत्ति मूलादागतो वाऽण् । भूम्यादेरागमादि- मूलज्ञे, “यं परम्परया मौलाः सामन्ताः स्वामिनं विदु” रिति स्मृतिः २ मूलादागते च ।
शब्दकल्पद्रुमः
मौलः || पुं, (मूलं वेदेति । मूल + अण् ।)
भूम्यादे- र्मूलज्ञाता । मोडल् इति भाषा । यथा, —
“यत् परम्परया मौलाः सामन्ताः स्वामिनं विदुः । तदन्वयस्यागतस्य दातव्या गोत्रजैर्मही ॥” इति दायतत्त्वम् ॥ तस्य लक्षणं यथा, —
“ये तत्र पूर्ब्बं सामन्ताः पश्चाद्देशान्तरं गताः । तन्मूलत्वात्तु ते मौला ऋषिभिः परिकीर्त्तिताः ॥” इति मिताक्षरा ॥ (विजिगीष्वरिमध्योदासीनः । यथा, कामन्द- कीये । ८ । ३४ । “चत्वारः पार्थिवा मौलाः पृथङ्मित्रैः सहा- ष्टकम् ॥” मूलभूते, त्रि । यथा, तत्रैव । ८ । २५ । “मौला द्वादश यास्त्वेता ह्यमात्याद्यास्तथा च याः । सप्ततिश्चाधिका ह्यताः सर्व्वं प्रकृतिमण्डलम् ॥”)