वाचस्पत्यम्
मौलि || पुंस्त्री० मूलस्यादूरभवः इञ् । १ चूडायां २ किरीटे ३ संयतकेशेषु अमरः ४ मस्तके हेमच० । ५ अशोकवृक्षे पु० । ६ भूमौ स्त्री मेदि० वा ङीप् ।
शब्दकल्पद्रुमः
मौलिः || पुं, (मूलस्यादूरभवः । मूल + सुतङ्ग- मादित्वादिञ् ।)
अशोकवृक्षः । इति मेदिनी ॥
शब्दकल्पद्रुमः
मौलिः || पुं, स्त्री, (मूल + सुतङ्गमादित्वात् इञ् ।)
चूडा । (यथा, महाभारते । ९ । ५९ । ५ । “एवमुक्त्वा स वामेन पदा मौलिमुपास्पृशत् ॥ शिरश्च राजसिंहस्य पादेन समलोडयेत् ॥”)
किरीटम् । (यथा, हरिवंशे । ९७ । ३० । “इयञ्च सा मया मौलिरुद्धृता वरुणालयात् ॥”)
संयतकेशः । इत्यमरः । ३ । ३ । १९२ । (यथा, रघौ । ७ । ६६ । “स चापकोटीनिहितैकबाहुः शिरस्त्रनिष्कर्षणभिन्नमौलिः । ललाटबद्धश्रमवारिविन्दुः भीतां प्रियामेत्य वचो बभाषे ॥”)
मस्तकम् । इति हेमचन्द्रः । ३ । २ । २३० ॥ (यथा, आर्य्यासप्तशत्याम् । ४२४ । “भालनयनेऽग्निरिन्दुर्मौलौ गात्रे भुजङ्गमणि- दीपाः ॥” प्रधानः । यथा, मार्कण्डेये । ५९ । १४ । “मौलयस्ते महाकायाः शाकपोतकरम्भकाः ॥”)
शब्दकल्पद्रुमः
मौलिः || स्त्री (मूले जाता । मूल + इञ् ।)
भूमिः । इति मेदिनी ॥