संस्कृत-शब्दकोशः

यकृद्वैरिन् यक्षकर्दम

यक्ष

वाचस्पत्यम्

यक्ष ||‍ पु० यक्ष्यते यक्ष—कर्मणि घञ् । १ देवयोनिभेदे २ तदीश्वरे कुवेरे मेदि० ३ इन्द्रगृहे सारस्वतः । भावे घञ् ४ पूजने च ।


वाचस्पत्यम्

यक्ष ||‍ पूजायां चु० आ० सक० मेट् । यक्षयते अययक्षत ।


शब्दकल्पद्रुमः

यक्ष || क ङ महि । इति कविकल्पद्रुमः ॥ (चुरा०- आत्म०-सक०-सेट् ।)
क ङ, यक्षयते । महि पूजायाम् । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

यक्षः || पुं, (यक्ष्यते पूज्यत इति । यक्ष + घञ् । यद्वा, ईं लक्ष्मीमक्ष्णोतीति । अक्ष + अण् ।)
गुह्यकमात्रम् । गुह्यकेश्वरः । इति मेदिनी । षे, २२ ॥ इन्द्रगृहम् । धनरक्षकः । इति सारस्वतः ॥ यक्षस्वरूपं यथा, —
“आजग्मुर्यक्षनिकराः कुबेरवरकिङ्कराः । शैलजप्रस्तरकरा अञ्जनाकारमूर्त्तयः ॥ विकृताकारवदनाः पिङ्गलाक्षा महोदराः । स्फटिका रक्तवेशाश्च दीर्घस्कन्धाश्च केचन ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १७ अध्यायः ॥ यक्षगणो यथा, —
“प्रचेतसः सुता यक्षास्तेषां नामानि मे शृणु । केवलो हरिकेशश्च कपिलः काञ्चनस्तथा । मेघमाली च यक्षाणां गण एष उदाहृतः ॥” तस्य व्युत्पत्तिर्यथा, —
“धातुर्यक्षत्यथोक्तस्त्वददने क्षपणे च सः । यद्यक्षत्युक्तवानेष तस्माद्यक्षो भवत्ययम् ॥” इति वह्निपुराणे काश्यपीयवंशः ॥ (अपरा निरुक्तिर्यथा, विष्णुपुराणे । १ । ५ । ४१ । “मैवं भो रक्ष्यतामेष यैरुक्तं राक्षसास्तु ते । ऊचुः खादाम इत्यन्ये ये ते यक्षास्तु जक्षणात् ॥” पुं, क्ली, पूजा । यथा, ऋग्वेदे । ७ । ६१ । ५ । “अमूरा विश्वा वृषणा विमा वां न यामु चित्रं ददृशे न यक्षम् ॥” “न यक्षं न पूजा दृश्यते ।” इति तद्भाष्ये सायणः ॥ तथाच अथर्व्ववेदे । १६ । २ । २४ । “तव यक्षं पशुपते अप्स्वन्तः ॥”)



Correction: