वाचस्पत्यम्
यक्षकर्द्दम || पु० यक्षप्रियः कर्दम इव । “कुङ्कुमागुरुकस्तूरी- कर्पूरं चन्दनं तथा । महामुगन्धमित्युक्तं नामतो यक्षकर्दम” इत्युक्ते समभागेन मिश्रिते कुङ्कुमादौ धन्व- न्तरिः । कुङ्कुमस्थाने कक्कोलमुक्तम् । यक्षवृक्षादयोऽप्यत्र ।
शब्दकल्पद्रुमः
यक्षकर्द्दमः || पुं, (यक्षप्रियः कर्द्दमः ।)
कर्पूरागुरु- कस्तूरीकक्कोलानां मिश्रितसमभागः । इत्य- मरः । २ । ६ । १३३ ॥ “कर्पूरादिभिर्गन्धद्रव्यैः समभागैः साधितोऽनुलेपनभेदो यक्षकर्द्दम उच्यते । यक्षप्रियः कर्द्दमो यक्षकर्द्दमः । ‘कुङ्कुमागुरुकस्तूरीकर्पूरं चन्दनन्तथा । महासुगन्धमित्युक्तं न तो यक्षकर्द्दमः ॥’ इति धन्वन्तरिः ॥ अन्यत्रापि । कर्पूरागुरुकस्तूरीकक्कोलघर्षणादि च । एकीकृतमिदं सर्व्वं यक्षकर्द्दम इष्यते ॥” इति तट्टीकायां भरतः ॥