शब्दकल्पद्रुमः
यत् || ई ङ यत्ने । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् । अनिड्निष्ठः ।)
ई, यत्तः । ङ, यतते पठितुं शिष्यः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
यत् || क खेदोपस्करयोः । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।)
खेद इह ताडनम् । क, यातयति पुत्त्रं पिता ताडयति इत्यर्थः । यातयति गृहं गृहिणी उपस्करोति इत्यर्थः । निरः प्रत्यर्पणे । प्रत्यर्पणं परीवर्त्तः । निर्यात- यति धान्येन माषान् लोकः धान्यं दत्त्वा माषान् गृह्णाति इत्यर्थः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
यत् || व्य, हेतुः । यस्मात् । इत्यमरः । ३ । ४ । ३ ॥ (यथा, उत्तररामचरिते । “अत्र स्थिता तृणमदात् बहुशो यदेभ्यः सीता ततो हरिणकैर्न विमुच्यते स्म ॥”)