संस्कृत-शब्दकोशः

यत्नवत् यथा

यत्र

वाचस्पत्यम्

यत्र ||‍ अव्य० यद् + त्रल । यस्मिन्नित्यर्थे ।


वाचस्पत्यम्

यत्र ||‍ सङ्कोचने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् । यन्त्रयति ते यन्त्रति अययन्त्रत् त अयन्त्रीत् ।


शब्दकल्पद्रुमः

यत्र || इ क संकोचने । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।)
दन्त्यवर्गाद्योपधः । इ क, यन्त्रयति मन्त्रेण सर्पं जाङ्गलिकः । यन्त्र इत्यनेनैवेष्टसिद्धे इदनुबन्धो वेदेषूच्चारणभेदार्थः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

यत्र || व्य, यस्मिन् । येखाने इति भाषा । यच्छब्दात् सप्तम्यास्त्रल्प्रत्ययेन निष्पन्नम् । इति सिद्धान्त- कौमुदी ॥ (यथा, श्रीमद्भगवद्गीतायाम् । “यत्र यत्र मनो देही धारयेत् सकलं धिया । स्नेहाद्बा यदि वा लोभाद् याति तत्तत् सरूप- ताम् ॥”)



Correction: