संस्कृत-शब्दकोशः

यमभगिनी यमराज्

यमराज

वाचस्पत्यम्

यमराज ||‍ पु० यमानां चतुर्दशानां राजा यमनियामको राजा वा टच्समा० । प्रेतानां राजनि धर्मराजे हमच० । यमेषु राजते राच—क्विप् । यमराडप्यत्र अमरः ।


शब्दकल्पद्रुमः

यमराजः || पुं, (यमश्चासौ राजा चेति । “राजाहः सखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।)
यमः । इति हेमचन्द्रः । २ । ९९ ॥ अस्य पुर्य्यादि यथा, “पुरी संयमनी तस्य चित्रगुप्तस्तु लेखकः । भृत्यौ चण्डमहाचण्डौ धूमोर्णाविजये प्रिये । विचार भूमिका नीचिः सहायाः कालपूरुषाः ॥” इति जटाधरः ॥ * ॥
स च विमात्रा छायया शप्तः । (यथा, मार्क- ण्डेये । ७७ । २५ — २९ । “छायासंज्ञा त्वपत्येषु यथा स्वेष्वतिवत्सला । तथा न संज्ञाकन्यायां पुत्त्रयोश्चान्ववर्त्तत ॥ नलिनाद्युपभोगेषु विशेषमनुवासरम् । मनुस्तत्क्षान्तवानस्या यमस्तस्या न चक्षमे ॥ ताडनाय च वै कोपात् पादस्तेन समुद्यतः । तस्याः पुनः क्षान्तिमता न तु देहे निपातितः ॥ ततः शशाप तं कोपात् छायासंज्ञा यमं द्बिज । किञ्चित् प्रस्फुरमाणोष्ठी विचलत्पाणिपल्लवा ॥ पितुः पत्नीममर्य्यादं यन्मां तर्ज्जयसे पदा । भुवि तस्मादयं पादस्तवाद्यैव पतिष्यति ॥”)
तच्छापान्तं यथा, —
“स्वरूपधारिणीं चेमामानिनाय निजाश्रमम् । संज्ञां भार्य्यां प्रीतिमतीं भास्करो वारितस्करः ॥ ततः पूर्ब्बसुतो योऽस्याः सोऽभूद्वैवस्वतो मनुः । द्बितीयस्तु यमः शापाद्धर्म्मदृष्टिरभूत् सुतः ॥ क्रिमयो मांसमादाय पादतस्ते महीतलम् । पतिष्यन्तीति शापान्तं तस्य चक्रे पिता स्वयम् ॥ धर्म्मदृष्टिर्यतश्चासौ समो मित्रे तथाहिते । ततो नियोगं तं याम्ये चकार तिमिरापहः ॥ यमुना च नदी जज्ञे कलिन्दान्तरवाहिणी ॥” इति मार्कण्डेयपुराणे वैवस्वतमन्वन्तरे । ७८ । २५ — २९ ॥



Correction: