वाचस्पत्यम्
ययाति || पु० यस्य वायोरिव यातिः सर्वत्र रथनतिरस्य । नहु- षात्मजे राजभेदे ।
शब्दकल्पद्रुमः
ययातिः || पुं, नहुषराजपुत्त्रः । तत्पर्य्यायः । नाहुषिः २ । इति त्रिकाण्डशेषः ॥ नाहुषः ३ । इति जटाधरः ॥ तस्योपाख्यानं यथा, —
“नहुषस्य प्रवक्ष्यामि पुत्त्रान् सप्तैव धार्म्मिकान् । यतिर्ययातिः संयातिरुद्भवः पञ्चमस्तथा ॥ स्वर्यातिर्मेघयातिश्च सप्तैते वंशवर्द्धनाः । ययातिरकरोद्राज्यं धर्म्मैकशरणस्तदा ॥ शर्म्मिष्ठा तस्य भार्य्याभूत् दुहिता वृषपर्व्वणः । भार्गवस्याङ्गजा तद्वद्देवयानी च सुव्रता ॥ ययातिर्देवयान्यान्तु पुत्त्रावजनयन्नृपः । यदुञ्च तुर्व्वसुञ्चैव शक्रविष्णू इवापरौ ॥ तस्मादेव तु राजर्षेः शर्म्मिष्ठा वार्षपर्व्वणी । द्रुह्यञ्चानुञ्च पूरुञ्च त्रीन् कुमारानजीजनत् ॥ ततः काले च कस्मिंश्चिद्देवयानी शुचिस्मिता । ययातिसहिता राजन् जगाम हरितं वनम् ॥ ददर्श च तदा तत्र कुमारान् देवरूपिणः । क्रीडमानान् सुविश्रब्धान् विस्मिता चेदमब्रवीत् ॥ किन्नामधेयं गोत्रं वः पुत्रकाः ! ब्राह्मणः पिता । विब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम् ॥ तेऽदर्शयन् प्रदेशिन्या तमेव नृपसत्तमम् ॥ बुद्ध्वा च तत्त्वतो देवी शर्म्मिष्ठामिदमब्रवीत् ॥ ममाधीना सती कस्मादकार्षीर्विप्रियं मम ॥ शर्म्मिष्ठोवाच । यदा तया वृतो राजा वृत एव तदा मया । त्वत्तो हि मे पूज्यतमो राजर्षिः किं न वेत्सि तत् ॥ शौनक उवाच । श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम् । राजन्नाद्येह वत्स्यामि विप्रियं मे त्वया कृतम् ॥ अविब्रुवन्ती किञ्चिच्च राजानं साश्रुलोचना । अचिरादेव संप्राप्ता काव्यस्योशनसोऽन्तिके ॥ देवयान्युवाच । शर्म्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्व्वणः । त्रयोऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना । दुर्मगाया मम द्वौ तु पुत्रौ तात ! ब्रवीमि वः ॥ शुक्र उवाच । धर्म्मज्ञः सन् महाराज ! योऽधर्म्ममकृथाः प्रियम् । तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्ज्जया ॥ ययातिरुवाच । ऋतुकामां स्त्रियं यस्तु गम्यां रहसि याचितः । नोपैति सह धर्म्मेण भ्रूणहेत्युच्यते बुधैः ॥ अधर्म्मभयसंविग्नः शर्म्मिष्ठामुपजग्मिवान् ॥ अतृप्तो यौवनस्याहं देवयान्या भृगूद्वह ! । प्रसादं कुरु मे ब्रह्मन् जरेयं मा विशेत माम् ॥ शुक्र उवाच । नाहं मृषा ब्रवीम्येतत् जरां प्राप्तोऽसि भूमिप ! । जरां त्वेतां त्वमन्यस्मै संक्रामय यदीच्छसि ॥ वयो दास्यति पुत्त्रो यः स ते राजाभविष्यति ॥” इति मात्स्ये ३२ अध्यायः ॥ * ॥
शौनक उवाच । “जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव हि । पुत्त्रं ज्येष्ठं वरिष्ठञ्च यदुमित्यब्रवीद्बचः ॥ त्वं यदो ! प्रतिपद्यस्व पाप्मानं जरया सह । यौवनेन त्वदीयेन चरेयं विषयानहम् ॥ पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् । दत्त्वा सम्प्रतिपत्स्यामि पाप्मानं जरया सह ॥ यदुरुवाच । सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप ! । जरां ग्रहीतुं धर्म्मज्ञ ! पुत्रमन्यं वृणीष्व वै ॥ ययातिरुवाच । यो मे त्वं हदयाज्जातो वयः स्वं न प्रयच्छसि । पापान्मातुलसम्बन्धात् दुष्प्रजा ते भविष्यति ॥ तुर्व्वसो प्रतिपद्यस्व पाप्मानं जरया सह । यौवनेन चरेयं वै विषयांस्तव पुत्रक ! ॥ तुर्व्वसुरुवाच । न कामये जरां तात ! कामभोगप्रणाशिनीम् । बलरूपान्तकरणीं बुद्धिमानविनाशिनीम् ॥ ययातिरुवाच । यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । तस्मात् प्रजा समुच्छेदं तुर्व्वसो ! तव यास्यति ॥ द्रुह्यो ! त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् । जरां वर्षसहस्राणि यौवनं स्वं प्रयच्छ च ॥ द्रुह्युरुवाच । न गजं न रथं चाश्वं जीर्णो भुङ्क्ते वरस्त्रियम् । नारोगश्चास्य भवति तां जरां ते न कामये ॥ ययातिरुवाच । यस्त्व मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । तस्मात् द्रुह्यो ! प्रियः कामो न ते सम्पत्स्यते क्वचित् ॥ अनो ! त्वं प्रतिपद्यस्व पाप्मानं जरया सह । एकं वर्षसहस्रन्तु चरेयं यौवनेन ते ॥ अनुरुवाच । जीर्नः शिशुरिवादत्ते कालेऽन्नमशुचिर्यथा । न जुहोति च कालेऽग्निं तां जरां नैव कामये ॥ ययातिरुवाच । यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । जरादोषस्त्वयोक्तो यस्तस्मात्तं प्रतिपत्स्यसे ॥ पूरो ! मे त्वं प्रियः पुत्त्र ! त्वं वरीयान् भविष्यसि । काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥ पूरो ! त्वं प्रतिपद्यस्व पाप्मानं जरया सह । किञ्चित्कालं चरेयं वै विषयान् वयसा तव ॥ पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् । स्वञ्चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥ शौनक उवाच । एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा । यथात्थ त्वं महाराज ! तत् करिष्यामि ते वचः ॥ ययातिरुवाच । पूरो ! प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते । सर्व्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ॥” इति मात्स्ये ३३ अध्यायः ॥ * ॥
शौनक उवाच । “पौरवेणाथ वयसा ययातिर्नहुषात्मजः । प्रीतियुक्तो नरश्रेष्ठश्चचार विषयान् सुखी ॥ पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह । पूरो ! प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौ- वनम् ॥ राज्यञ्चापि गृहाणेदं यत् त्वयोपकृतं पुरा ॥ शौनक उवाच । एवं स नाहुषो राजा ययातिः पुत्त्रमीप्सितम् । राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः ॥ उषित्वा वनवासं स ब्राह्मणैः सह संश्रितः । फलमूलाशनो दान्तो यथा स्वर्गमितो गतः ॥” इति मात्स्ये ३५ अध्यायः ॥ * ॥