वाचस्पत्यम्
यवन || पु० यु—यु । १ देशभेदे सोऽभिजनोऽस्य तस्य राजा वा अण् बहुषु तस्य लुक् । २ तद्देशस्थेषु जनेषु ३ तन्नृपेषु ब० व० । ४ वेगे ५ अधिवेगयुताश्वे मेदि० ६ गोधूमे ७ गर्जर- तृणे ८ तुरष्कजातौ राजनि० ययातिशप्तम्य तत्पुत्रस्य तुर्वसोर्षश्ये जातिभेदे च पुंस्त्री० स्त्रियां ङीष् । १० वेगवति त्रि० ।
शब्दकल्पद्रुमः
यवनः || त्रि (यौतीति । यु + “नन्दिग्रहीति ।” ३ । १ । १३४ । इति ल्युः ।)
वेगी । इति मेदिनी । ने, १११ ॥ (यथा, नैषधचरिते । १ । ६५ । “तमश्ववारा यवनाश्वयायिनं प्रकाशरूपा मनुजेशमन्वयुः ॥”)
शब्दकल्पद्रुमः
यवनः || पुं, देशविशेषः । (यथा, मात्स्ये । १२० । ४३ । “तान् देशान् प्लावयन्ति स्मम्लेच्छप्रायांश्च सर्व्वशः । सशैलान् कुकुरान् रौध्रान् वर्वरान् यवनान् खसान् ॥”)
वेगः । वेगाधिकाश्वः । इति मेदिनी ॥ गोधूमः । गर्जरतृणम् । तुरुष्कः । इति राजनिर्घण्टः ॥ (यौति मिश्रीभवतीति । यु + “सुयुरुवृञो युच् ।” उणा० २ । ७४ । इति युच् ।)
जाति- विशेषः । इति शब्दरत्नावली ॥ स तु यवन- देशोद्भवययातिराजपुत्त्रतुर्व्वसुवंशः । यथा, —
“यदोस्तु जाता यदवस्तुर्व्वसोर्यवनाः सुताः । द्रुह्योस्तु तनया भोजा अनोस्तु म्लेच्छजातयः । पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव ! ॥” इति मात्स्ये ३४ अध्यायः ॥ * ॥
सगरराजेनैषां सर्व्वशिरोमुण्डनं सर्व्वधर्म्मराहि- त्यञ्च कृतं ते चात्मधर्म्मपरित्यागात् म्लेच्छत्वं ययुरिति विष्णुपुराणोक्तत्वात् यवनः मोसल- मानेङ्गरेजोभयजातिवाचकः । यवनशब्दश्चवर्ग- तृतीयादिरिति रघुनन्दनभट्टाचार्य्येण लिखि- तम् ॥ जवनादीनान्तु सर्व्वधर्म्मराहित्यमुक्तं हरिवंशे । यथा, —
“सगरस्तां प्रतिज्ञाञ्च गुरोर्वाक्यं निशम्य च । धर्म्मं जघान तेषां वै वेशान्यत्वं चकार ह ॥ अर्द्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत् । जवनानां शिरः सर्व्वं काम्बोजानान्तथैव च ॥ पारदा मुक्तकेशाश्च पह्नवाः श्मश्रुधारिणः । निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ शका जवनकाम्बोजाः पारदाः पह्नवास्तथा । कोलिसर्पाः समहिषा दार्व्वाश्चोलाः सकेरलाः ॥ वशिष्ठवचनाद्राजन् ! सगरेण महात्मना । शकानां शकदेशोद्भवानां क्षत्त्रियाणां एवं जव- नादीनामिति । अत्र जवनशब्दस्तद्देशोद्भव- वाची चवर्गतृतीयादिः । जवनो देशवेगिनो- रिति त्रिकाण्डशेषाभिधानदर्शनात् । तेषां म्लेच्छत्वमप्युक्तं विष्णुपुराणे । तथा कृतान् जवनादीनुपक्रम्य । ते चात्मधर्म्मपरित्यागात् म्लेच्छत्वं ययुरिति । बौधायनः । “गोमांसखादको यश्च विरुद्धं वहु भाषते । धर्म्माचारविहीनश्च म्लेच्छ इत्यभिधीयते ॥” इति प्रायश्चित्ततत्त्वम् ॥ * ॥
यवनादीनां राज्यकालो यथा, —
“सप्त गर्द्दभिनश्चापि शकाश्चाष्टादश स्मृताः । यवनाष्टौ भविष्यन्ति तुखारश्च भविष्यति ॥ अष्टौ ते यवना राज्यं वर्षाणां परिसङ्ख्यया । भोक्ष्यन्त्यशीति तद्वच्च येऽपि गर्द्दभिनः स्मृताः ॥ शतानि त्रीणि वर्षाणां द्व्यशीतीनि शतानि वै । शकानां राज्यकालः स्याद्भविष्यो निश्चयो गतः ॥ शतस्यार्द्धं चतुर्थानि वर्षाणां राज्यभागिनः । मरुत्तानां सुताः काला यस्मिन् भोक्ष्यन्ति ते महीम् ॥ मरुत्ता वृषलैः सार्द्धं तथान्ये म्लेच्छसम्भवाः । भोक्ष्यन्ति राज्यं प्राच्येषु भविष्ये तद्बिधारितम् ॥ शतानि त्रीणि वर्षाणां पौण्ड्रा राज्यभुजः स्मृताः । अश्नन्ति पार्व्वतेयास्तु द्वे शते परिसङ्ख्यया ॥ शतार्द्धमन्यच्च तथा राज्यं भोक्ष्यन्ति ते नृपाः । सप्तषष्टिस्तु वर्षाणि दशातीवाह्यतः स्मृताः ॥ तेषु च्छन्नेषु कालेषु ततः किलकिला नराः । भविष्यन्तीह यवना धर्म्मतः कामतोऽर्थतः ॥ तैविमिश्रा जनपदा आर्य्या म्लेच्छाश्च सर्व्वशः । विपर्य्ययेण वर्त्तन्ते जनयिष्यन्ति वै प्रजाः ॥ लब्ध्वानिष्टवरञ्चैव भवितारस्तदा नृपाः । तेषां व्यतीते पर्य्याये बहुवर्षयुगांस्तदा ॥ राजानः संप्रणश्यन्ति कालेन महता ततः । कल्किना ताडिताः सर्व्वे आर्य्या म्लेच्छाश्च सर्व्वशः ॥ अधार्म्मिकाश्च ये सर्व्वे पाषण्डाश्चैव सर्व्वशः । व्युष्टे नृपतिशब्दे वै सन्ध्याशिष्टे च वै कलौ ॥” इति ब्रह्माण्डपुराणे ३९ अध्यायः ॥ मुनिविशेषः । यथा, —
“जातं दिनं दूषयते वशिष्ठ- श्चाष्टौ च गर्गो यवनो दशाहम् । जन्माख्यमासं किल भागुरिश्च व्रते विवाहे क्षुरकर्णवेधे ॥” इति तिथ्यादितत्त्वम् ॥ * ॥
कालयवनोत्पत्तिर्यथा, — श्रीपराशर उवाच । “गार्ग्यं गोष्ठे द्विजं श्यालः षण्ढैत्युक्तवान् द्विज । यदूनां सन्निधौ सर्व्वे जहसुर्यादवास्ततः ॥ ततः कोपसमाविष्टो दक्षिणापथमेत्य सः । सुतमिच्छं स्तपस्तेपे यदुचक्रभयावहम् ॥ आराधयन्महादेवं सोऽयश्चूर्णमभक्षयत् । ददौ वरञ्च तुष्टोऽस्मै वर्षे द्वादशमे हरः ॥ सभाजयामास च तं यवनेशो ह्यनात्मजः । तद्योषित्सङ्गमाच्चास्य पुत्त्रोऽभूदलिसन्निभः ॥ तं कालयवनं नाम राज्ये स्वे यवनेश्वरः । अभिषिच्य वनं यातो वज्राग्रकठिनोरसम् ॥ स च वीर्य्यमदोन्मत्तः पृथिव्यां बलिनो नृपान् । पप्रच्छ नारदश्चास्मै कथयामास यादवान् ॥ म्लेच्छकोटिसहस्राणां सहस्रैः सोऽभिसंवृतः । गजाश्वरथसम्पन्नैश्चकार परमोद्यमम् ॥ प्रययौ चाव्यवच्छिन्नं छिन्नयानो दिने दिने । यादवान् प्रति सामर्षो मैत्रेय मथुरां पुरीम् ॥ कृष्णोऽपि चिन्तयामास क्षयितं यादवं कुलम् । यवनेन रणे गम्यं मागधस्य भविष्यति ॥ मागधस्य बलं क्षीणं स कालयवनो बली । हन्ता तदिदमायातं यदूनां व्यसनं द्विधा ॥ तस्माद्दूर्गं करिष्यामि यदूनामतिदुर्जयम् । स्त्रियोऽपि यत्र युध्येयुः किं पुनर्वृष्णिपुङ्गवाः ॥” “इति सञ्चिन्त्य गोविन्दो योजनानि महोदधिम् । ययाचे द्वादशपुरीं द्वारकां तत्र निर्म्ममे ॥ मथुरावासिनो लोकांस्तत्रानीय जनार्द्दनः । आसन्ने कालयवने मथुराञ्च स्वयं ययौ ॥ वहिरावासिते सैन्ये मथुराया निरायुधः । निर्जगाम स गोविन्दो ददृशे यवनश्च तम् ॥ स ज्ञात्वा वासुदेवं तं बाहुप्रहरणो नृपः । अनुयातो महायोगिचेतोभिः प्राप्यते न यः ॥ तेनानुयातः कृष्णोऽपि प्रविवेश महागुहाम् । तत्र शेते महावीर्य्यो मुचुकुन्दो नरेश्वरः ॥ सोऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नरम् । पादेन ताडयामास कृष्णं मत्वा सुदुर्म्मतिः ॥ दृष्टमात्रश्च तेनासौ जज्वाल यवनोऽग्निबा । तत्क्रोधजेन मैत्रेय ! भस्मीभूतश्च तत्क्षणात् ॥” इति विष्णुपुराणे ५ अंशे २३ अध्यायः ॥